This page has not been fully proofread.

( १४ )
 
"कार्यभूता । दृक्शक्तिरूपस्य पुरुषस्य दर्शनशक्तिरूपाया बुद्धेः अर्थात्
'आत्मानात्मनोः परस्परमत्यन्त विलक्षणयोर विद्यावशाद
 
या
 
S
 
एकात्मता इव ( एकस्वरूपापत्तिरिव ) न तु परमार्थत एकात्मता
सा अस्मिता कथ्यते । दृक् = पुरुषः - भोक्ता इति यावत्, दर्शनम् =
बुद्धिः - अनात्मा-भोग्यमिति यावत् । तयौं: शक्तिश्च योग्यतालक्षणा ।
एतावता पुरुषे भोक्तृत्वयोग्यता अनात्मनि बुद्धौ च भोग्यत्वलक्षणा
योग्यताऽस्तीति तयोः भोक्तृभोग्ययोर्योग्यतालक्षणसम्बन्धः सदाऽ
स्तीति शक्तिपदेन ध्वन्यते । तथा चात्यन्तविलक्षणयोरत्यन्तासंकीर्ण-
• योरपि भोक्तृभोग्यशक्त्योः अनात्मनि-बुद्धौ आत्मज्ञानलक्षणया
 
विद्ययाऽऽपादिता या एकात्मता इव भवति सैवास्मिता, तस्यां
·· सत्यां भोगः कल्पते । विवेकख्यातौ सत्यां तु स्वरूपप्रतिलम्भे
सति तयोः कैवल्यमेव भवति कुतो भोगः स्यादिति । अतः
इयमस्मितंव मोगसम्पादिकेति तात्पर्यम् । ( द्र० यो० मा० त०
वै० पा० २ सू० ६ ) ।
 
विज्ञानभिक्षुस्तु— दृग् = द्रष्टा,
 
दृश्यतेऽनेनेति व्युत्पत्त्या दर्शनं = करणं
बुद्धिः । प्रलयादी फलोपधानं नास्तीति "दृग्दर्शनशक्त्योरेकात्मते-
वास्मिता" इति सूत्रे शक्तिग्रहणं कृतम् । तथा च तयो ग्दर्शन-
शक्त्योरेकात्मतेव = स्वरूपतो धमंतश्चात्यन्तमेकाकारो विपर्ययो-
··अस्मिताऽहङ्कार इत्याह । एतदनुसारमविद्याऽस्मितयोरयं भेदो यत्
प्रथमं बुद्ध्यादौ या सामान्यतोऽहंबुद्धिर्जायते, सैवाविद्या । तत्र
बुद्ध्यात्मनोः अत्यन्ताभेदस्याग्रहणात् भेदाभेदेनाप्युपपन्ना सा ।
किन्तु अविद्यानन्तरं जायमानायामस्मितायां तु बुद्धिपुरुषयोः
स्वरूपतो वमंतश्चात्यन्ताभेदो गृह्यते, यत्प्रभावात् पुरुषे गुणदोषा-
दिबुद्धिधर्माणामारोपो भवति "ईश्वरोऽहमहं भोगी" इत्यादिरूपः ।
तथाऽस्मिताप्रभावादेव बुद्धिपुरुषयोरत्यन्तमेकताभ्रमो भवति, यथा
"दूरस्थवनस्पत्यो रत्यन्त मेकताम्र मो भवति लोकानाम् ।