This page has been fully proofread once and needs a second look.

( १३ )
 
असंप्रज्ञातः, असंप्रज्ञात
"विरामप्रत्ययाभ्यासपूर्वः संस्कारशेषोऽन्यः" इति

योगसूत्रानुसारं सर्ववृत्तीनां यो विराम:=प्रत्यस्तमयः, तस्य प्रत्ययः=-

कारणं परं वैराग्यम्, तस्याभ्यासात् = पौनःपुन्येनानुष्ठानात् संस्कार-.

मात्रशेषो यश्चित्तनिरोधः, सोऽसम्प्रज्ञात इति वाचस्पतिमिश्राः ।
 

( द्र० यो मा० त० वं० पा० १ सू० १८ ) ।
 

असंप्रज्ञातयोगेन किश्चित् सम्प्रज्ञायते ध्येयजातमित्यन्वर्थनामायम-.

संप्रज्ञातयोगः तदानीं चित्तं निरालम्बनमभावप्राप्तमिव भवतीति

एष निर्बीजः समाधिरित्युच्यते ।
 
-
 

विज्ञान भिक्षुरप्याह- पुरुषपर्यन्तं कस्मिन्नप्यालम्बने चित्तस्यैका-.

ग्रतारूपोऽभ्यासो नासंप्रज्ञातस्य साक्षात्साधको भवति । अतः पुरुष-

ख्यातिपयंन्तास्वखिलवृत्तिषु अलम्वुद्धिरूपो विरामप्रत्ययः पर-

वैराग्याख्य एवासंप्रज्ञातेन साधनतयाऽऽलम्बनीक्रियते । यतः सोऽ.

सम्प्रज्ञातोऽपि निर्वस्तुकः = नास्ति वस्तु चिन्तनीयं यत्रेत्येतादृशोऽ.

स्ति । तस्माद् यतोऽसम्प्रज्ञातोऽपि ध्येयार्थशून्यः, अतोऽखिलध्येय-

वैराग्यमेव तत्रालम्बनतया हेतुर्भवतीति । तथा च कृतवैराग्याभ्यास

चित्तं निरालम्बनं निर्विषयमभावप्राप्तमिव वृत्तिरूपकार्याकरणाद्

मृतकवद् भवतीत्येषोऽवस्थाविशेषोऽसंप्रज्ञात इति । ( द्र० यो० वा०

पा० १ सूत्र ० १८ ) ।
 

भोजदेवरवाह - विरामो वितर्कादिचिन्तात्यागः, विरामश्चासौ

प्रत्ययश्चेति विरामप्रत्ययः तस्याभ्यासः पौनःपुन्येन चेतसि निवेशनम्,

तत्र या काचिद् वृत्तिरुल्लसति तस्या 'नेति नेति' इति नैरन्तर्येण

पर्युदसनं विरामप्रत्ययाभ्यासः, तत्पूर्वः = सम्प्रज्ञातसमाधिः, संस्कार-

शेषोऽन्यः तद्विलक्षणः अयमसम्प्रज्ञात इति । किन्तु व्याख्यानमिदं

भाष्याननुकुलमिति ज्ञेयम् । सूत्रे पूर्वंशब्दस्य हेत्वर्थकत्वेन सम्प्रज्ञात-

समाधेरबोधकत्वात् ।
 

 
अस्मिता--, अस्मिता
पञ्चसु क्लेशेषु मध्येऽस्मिता द्वितीय: क्लेशोऽविद्यायाः.
 
}