This page has been fully proofread once and needs a second look.

चलेशसन्तानस्य कर्माशयस्य च सविपाकस्य मूलमस्ति । पुनश्च सा
अमित्रागोष्पदवद् वस्तुसतत्वं विज्ञेयम् । यथा नामित्रो मित्रामावो
न मित्रमात्रम् किन्तु तद्विरुद्धः सपत्नः । एवमविद्या न प्रमाणं न
प्रमाणामाव: किन्तु विद्याविपरीतं ज्ञानान्तरमविद्येति । ( द० यो०
मा० पा० २ सू० ५) ।
अत्राहुः वाचस्पतिमिश्राः - प्रविद्येति पदे पूर्वपदार्थप्रधानं नञ, -
समासमाश्रित्य अमक्षिकम् इतिवत् विद्याया अमावोऽविद्येति न
प्रसज्यप्रतिषेधः । नापि उत्तरपदार्थप्रधानं समासमाश्रित्य 'अराज-
'पुरुष' इतिवत् विद्येव कस्यचिदभावेन विशिष्टा सती अविद्येत्यस्ति,
तथा सति तस्याः क्लेशादिपरिपन्थित्वेन तद्वीजत्वासंभवात् । नापि
चान्यपदार्थप्रधानं समासमाश्रित्य नास्ति विद्या यस्याः साऽविद्येति
विगृह्य विद्याऽभावविशिष्टा बुद्धिरेवाविद्यापदवाच्यास्ति विद्याया
अभावमात्रेण बुद्धेः क्लेशादिवीजत्वासंभवात्, तथात्वे विवेकख्याति-
पूर्वक निरोधसम्पन्नाया अपि बुद्धेः क्लेशादिवोजत्वप्रसङ्गात् ।
तस्माद् विद्याविरुद्धं विपर्ययज्ञानमेवाविद्यापदवाच्यमस्तीति ।
( द्र० यो० भा० त० वै० पा० २ सू० ५ ) ।
विज्ञान भिक्षुरप्याह – अस्मिश्च दर्शने सांख्यानामिव । विवेको नाविद्या-
शब्दार्थ:, किन्तु वैशेषिकादिवद् विशिष्टज्ञानमेव ( अन्यथाख्यातिरेव )
इति । ( द्र० यो० वा० पा० २ सू० ५ ) । अविद्येव तम इति
कथ्यते ।
 
अविद्याऽस्मितयोर्भेदः, अविद्याऽस्मितयोर्भेद - अविद्यातश्चास्मिताया अयं भेदो यद्
बुद्ध्यादी प्रथमं या सामान्यतोऽहंबुद्धिः, सा भेदाभेदेनाप्युपपद्यतेऽ
त्मन्ताभेदाग्रहणात्, सैवाविद्या । अस्मिता तु तदुत्तरकालीनः पुरुषे
बुद्ध्यादिगुणदोषारोपः ईश्वरोऽहमहं भोगीत्यादिरूपः, दूरस्य-
वनस्पत्योरिव बुद्धिपुरुषयोरत्यन्त मेकताभ्रमच इत्येतदुमयरूपिणीति
( द्र० यो० वा० पा० २ सू०६ ) ।