This page has been fully proofread once and needs a second look.

( ११ )
 
-
 
प्रचयविशेषः, सूक्ष्मं च कारणमनुपलभ्यमविकल्पस्य तस्यावयव्य--

भावात् अतद्रूपप्रतिष्ठं मिथ्याज्ञानमिति प्रायेण सर्वमेव प्राप्त

मिथ्याज्ञानमिति । तदा च सम्यग्ज्ञानमपि कि स्याद् विषया-

भावात् । यद्यदुपलभ्यते तत्तदवयवित्वेनाघ्रातम् । तस्मादस्त्य-

वयवी यो, महत्त्वादिव्यवहारापन्नः समापत्तनिर्वितर्काया विषयो

भवतीति ।" ! द्र० यो भा० पा० १ मू० ४३ ) । व्याख्या--

तञ्चैतदाञ्जस्येन तत्त्ववैशारदीयोगवातिकादिषु इति विभावनीयम् ।

 
अवस्थापरिणामः, अवस्थापरिणाम
वर्तमानलक्षणस्य घटादेर्नवत्वपुराणत्वादिपरि-

णामोऽवस्थापरिणामः । तदुत्तम् योगभाष्ये- घटो नवपुराण-

तामनुभवन्नवस्थापरिणामं प्रतिपद्यत इति (द्र० यो० मा० पा० ३

सु० १३) । वाचस्पति मिश्रा अप्याहुः – वर्तमानलक्षणापत्न्नस्य गवा-

देर्बाल्यकौमारयौवनवार्धकमवस्थापरिणामः, घटादीनाञ्च नवपुरा-.

तनताऽवस्थापरिणामः । एवमिन्द्रियाणामपि घर्मिणां वर्तमान-

लक्षणस्य रत्नाद्यालोचनस्य स्फुटत्वादिरवस्थापरिणाम इति ।

( द्र० त० वै० पा० ३ सू० १३ ) । न च वर्तमानलक्षणस्य

नवत्वपुराणत्वाद्यवस्थापरिणामो भवतु नाम तथापि अनागतातीत-

लक्षणयोस्तु कीदृशोऽवस्थापरिणाम इति वाच्यम् तत्रापि शीघ्र-.

भविष्यत्ताविलम्ब भविष्यत्तादिरूपोऽवस्था विशेषोऽनागतातीतयोलंक्षण-

योरपि वर्तत एवेति विज्ञानभिक्षुः । ( द्र० यो० वा०.

तत्रत्यमेव ) ।
 

 
अविद्या, अविद्या
अनित्ये कार्ये नित्यख्यातिः, यथा ध्रुव । पृथिवी, ध्रुवाः

सचन्द्रतारका द्यौः, अमृता दिवौकस इति । एवं परमबीभत्सेऽशुचौ

काये शुचिख्यातिः, एवं दुःखे सुखख्यातिः, तथाऽनात्मनि आत्मख्यातिः

यथा बाह्योपकरणेषु चेतनाचेतनेषु पुत्रदारगृहादिषु भोगाधिष्ठाने-

वा शरीरे । तथा पुरुषोपकरणे मनसि अनात्मनि आत्मख्यातिरिति ।

इत्येवमेषाऽविद्या चतुष्पदा भवति । सा च अविद्या सम्पूर्णस्य