This page has not been fully proofread.

( ११ )
 
-
 
ऩ प्रचयविशेषः, सूक्ष्मं च कारणमनुपलभ्यमविकल्पस्य तस्यावयव्य--
भावात् अतद्रूपप्रतिष्ठं मिथ्याज्ञानमिति प्रायेण सर्वमेव प्राप्त
मिथ्याज्ञानमिति । तदा च सम्यग्ज्ञानमपि कि स्याद् विषया-
भावात् । यद्यदुपलभ्यते तत्तदवयवित्वेनाघ्रातम् । तस्मादस्त्य-
वयवी यो, महत्त्वादिव्यवहारापन्नः समापत्तनिर्वितर्काया विषयो
भवतीति ।" ! द्र० यो भा० पा० १ मू० ४३ ) । व्याख्या--
तञ्चैतदाञ्जस्येन तत्त्ववैशारदीयोगवातिकादिषु इति विभावनीयम् ।
अवस्थापरिणामः – वर्तमानलक्षणस्य घटादेर्नवत्वपुराणत्वादिपरि-
णामोऽवस्थापरिणामः । तदुत्तम् योगभाष्ये- घटो नवपुराण-
तामनुभवन्नवस्थापरिणामं प्रतिपद्यत इति (द्र० यो० मा० पा० ३
सु० १३) । वाचस्पति मिश्रा अप्याहुः – वर्तमानलक्षणापत्न्नस्य गवा-
देर्बाल्यकौमारयौवनवार्धकमवस्थापरिणामः, घटादीनाञ्च नवपुरा-.
तनताऽवस्थापरिणामः । एवमिन्द्रियाणामपि घर्मिणां वर्तमान-
लक्षणस्य रत्नाद्यालोचनस्य स्फुटत्वादिरवस्थापरिणाम इति ।
( द्र० त० वै० पा० ३ सू० १३ ) । न च वर्तमानलक्षणस्य
नवत्वपुराणत्वाद्यवस्थापरिणामो भवतु नाम तथापि अनागतातीत-
लक्षणयोस्तु कीदृशोऽवस्थापरिणाम इति वाच्यम् तत्रापि शीघ्र-.
भविष्यत्ताविलम्ब भविष्यत्तादिरूपोऽवस्था विशेषोऽनागतातीतयोलंक्षण-
योरपि वर्तत एवेति विज्ञानभिक्षुः । ( द्र० यो० वा०.
तत्रत्यमेव ) ।
 
अविद्या – अनित्ये कार्ये नित्यख्यातिः, यथा ध्रुव । पृथिवी, ध्रुवाः
सचन्द्रतारका द्यौः, अमृता दिवौकस इति । एवं परमबीभत्सेऽशुचौ
काये शुचिख्यातिः, एवं दुःखे सुखख्यातिः, तथाऽनात्मनि आत्मख्यातिः
यथा बाह्योपकरणेषु चेतनाचेतनेषु पुत्रदारगृहादिषु भोगाधिष्ठाने-
वा शरीरे । तथा पुरुषोपकरणे मनसि अनात्मनि आत्मख्यातिरिति ।
इत्येवमेषाऽविद्या चतुष्पदा भवति । सा च अविद्या सम्पूर्णस्य