This page has been fully proofread once and needs a second look.

अपरान्तम् (मरणम्) उपस्थितमिति । ( द्र० यो० भा० पा० ३
सू० २२ ) ।
यद्यप्ययोगिनास प्यरिष्टेभ्य: प्रायेण तज्ज्ञानमुत्पद्यते, तथापि तेषां
तज्ज्ञानं सामान्याकारेण संशयरूपं भवति, योगिनान्तु नियत-
देशकालतया प्रत्यक्षवदव्यभिचारि भवतीति विशेष इति भोजदेवः ।
( द्र० पा० द० भो० वृ० पा० ३ सू० २२ ) ।
 
अर्थवत्त्वम् , अर्थवत्त्व
भूतानां पञ्चमं रूपमर्थवत्त्वम् तदपि भूतजयसिद्धये
संयमविषयीक्रियते । यद्यपि भोगापवर्गरूपार्थवत्त्वं गुणेष्वेव वर्तते
ते गुणास्तन्मात्रेषु अन्वयिनः सन्ति, तन्मात्राणि च भूतेषु
अन्वयीनि भवन्ति, भूतानि च भौतिकेषु गोघटादिष्वन्वयीनि
भवन्तीति सर्वमर्थवद्भवति । प्रकृते च भूतेषु यदर्थवत्त्वं पञ्चमं
रूपमस्ति तस्यापि संयमो भूतजयःर्थमपेक्षितो भवतीति ( द्र० यो०
भा० पा० ३ सू० ४४ ) ।
 
अर्धमात्रम् , अर्धमात्र
उदरोरसोर्मध्ये यत्पद्ममधोमुखं तिष्ठत्यष्टदलं, तद्
रेचकप्राणायामेनोर्ध्वमुखं कृत्वा तत्र चित्तं धारयेत् । तत्र पद्ममध्ये
सूर्यमण्डलमकारो जागरितस्थानम्, तदुपरि चन्द्रमण्डलमुकारः
स्वप्नस्थानम् तस्योपरि वह्निमण्डलं मकार: सुषुप्तिस्थानम्,
तदुपरि परं व्योमात्मकं ब्रह्मनादं तुरीयस्थानमर्धमात्र मुदाहरन्ति
ब्रह्मवादिनः ( द्र० यो० मा० त० वै० पा० १ सू० ३६ ) ।
 
अवयवी, अवयविन्
निर्वितर्काया: समापत्तेर्विषयतया सिद्धोऽवयवीति योग-
मतम् । तदुक्तं योगभाष्ये - "तस्या एकबुद्ध्युपक्रमो ह्यर्थात्माs
णुप्रचय विशेषात्मा गवादिर्घटादिर्वा लोकः । स च संस्थान विशेषो
भूतसूक्ष्माणां साधारणों धर्मं आत्मभूतः, फलेन व्यक्तेनानुमितः
स्वव्यज्ञ्जकाञ्जनः प्रादुर्भवति, धर्मान्तरोदये च तिरोभवति ।
स एष धर्मोऽवयवीत्युच्यते । योऽसावेकश्च महांथाणीयांच स्परांवांच
क्रियाधमंकरच तेनावयविना व्यवहाराः क्रियन्ते । यस्य पुनरवस्तुक: