This page has not been fully proofread.

( ९ )
 
योगसूत्रस्य मणिप्रभावृतिकार आह-पूर्वजन्मसु असकृन्म रणदुःख-
नुभवजन्यवासनासङ्घः स्वरसः, तेन वहति प्रवहतीति स्वरसवाही
सर्वजनस्य मरणत्रासरूपोऽभिनिवेश इति । ( यो० सू० म० प्र०
वृ, पा० २ सू० ९ ) ।
 
अभिनिवेशस्यैव तान्त्रिकी संज्ञा अन्धतामिस्र इत्यस्ति ।
 
अभ्यासः—निरुद्ध वृत्तिकस्य = राजसतामसवृत्तिरहितस्य चित्तस्य या
प्रशान्तवाहिता- विमला अर्थात् : सात्विकवृत्तिवाहिता रूपंकाग्रता
सैव स्थितिः, तदर्थो यो यत्नः = वीर्यमुत्साहः = अर्थात् तादृश-
स्थितिप्राप्त्यर्थं साधनीभूतानां यमनियमादीनामनुष्ठानमेवाभ्यास
इति । (द्र यो० भा० त० वॅ० पा० १ सू० १३ ) ।
 
उक्तस्थित्यर्थं श्रद्धावीर्यस्मृतिसमाधिप्रज्ञादीनामनुष्ठानमभ्यास इति
विज्ञानभिक्षुः । नागेश भट्टोऽपि भिक्षुमेवानुसरति । भोजदेवस्तु
सामान्यतो वृत्तिशून्यस्य चित्तस्य स्वरूपनिष्ठ: परिणाम एव
स्थितिरिति वदन् तस्याः स्थितेः पुनः पुनस्तथात्वेन चेतसि
निवेशनमेवाभ्यास इत्युवाच । द्रष्टव्या तत्रत्या वृत्तिः ।
 
-
 
अयुतसिद्धावयवः समूह: – यस्य समूहस्यावयवा अन्तरालरहिताः
निरन्तरा भवन्ति स समूहो अयुतसिद्धावयवः समूहः । यथा
वृक्षो गौ: परमाणुरिति । ( द्र० यो० भा० त० वै० पा० ३
सु० ४४ ।
 
अरिष्टन्त्रैविध्यम् - त्रिविधमरिष्टं भवति, आध्यात्मिकमाधिमीतिक-
माधिदैविकञ्चेति । तत्राध्यात्मिकं यथा- पिहितकर्णः स्वदेहे घोषं
न शृणोति, अङ्गुल्यादिना नेत्रेऽवष्टब्धे ( मदिते ) वह्निकणतुल्यं
ज्योतिर्वा न पश्यति । आधिभौतिकं यथा- यमपुरुषान् पश्यति
पितॄनतीतानकस्मात् पश्यति । तथाऽऽधिदैविकम् - स्वर्गमकस्मात्
सिद्धान् वा पश्यति, विपरीतं वा सर्वं पश्यतीति । अनेन जानाति