This page has not been fully proofread.

( ८ )
 

 
इत्याह । ( द्र० यो० वा० पा० ३ सू० ३९ ) । नागेशभट्टोऽपि
पातञ्जलसूत्रवृत्तौ इममेव पक्षमुररीकरोतीति तत एवानुसन्धेयम् ।
अभावः -- अभावः अधिकरणावस्थाविशेषमात्ररूपः । अतएव
वृत्तिनिरोधो न पृथक् कश्चिदभावो वृत्तीनामित्याह विज्ञानभिक्षुः ।
( द्र० यो० वा० पा० १ सू० १ ) ।
 
निरोधस्य भावरूपत्वं योगमञ्जयमपि निरूपितम् । ( द्र० यो०
म० का ३ ) ।
 
अभिध्यानम् – अनागतार्थच्छा-- इदमस्याभिमतमस्त्वित्याकारेति वाच-
स्पतिमिश्राः । ( द्र० यो० मा० त० वै० पा० १ सू० २३ ) ।
 
अभिनिवेशः– सर्वस्य प्राणिनः इयमात्माशोनित्या भवति । मा न
भूवम्, भूयासमिति । तथा चैवंविधो मरणत्रास एवाभिनिवेश
इत्युच्यते । अयं चाभिनिवेश: स्वरसवाही भवति । अर्थात् स्वभावेन
वासनारूपेण वहनशीलो भवति न पुनरागन्तुकः । न चाननुभूत-
मरणधर्मकस्यैषा भवत्यात्माशी: । एतया च पूर्वजन्मानुभव: प्रती-
यते । स चायमभिनिवेश: क्लेशः स्वरसवाही, कृमेरपि जातमा-
त्रस्य प्रत्यक्षानुमानागमैरसंभावितो मरणत्रासः उच्छेददृष्ट्यात्मकः
पूर्वजन्मानुभूतं मरणदुःखमनुमापयति । अयश्च क्लेशों नाविदुष
एवात्यन्तमूढस्यैव भवति किन्तु विदुषोऽपि विज्ञातपूर्वापरान्तस्य
रूढ़ः । तथा च सूत्रम् - 'स्वरसवाही विदुषोऽपि तथारूढोऽभि-
निवेश:" इति । (द्र० यो० मा० तथा त० वै० पा० २ सु० ९) ।
विज्ञानभिक्षुरप्याह
– यथाऽविद्वज्जनस्य तथा विदुषोऽपि स्वरसवा-
हित्वहेतुना यः (मरणत्रासात्मकः) क्लेशोऽस्ति सोऽभिनिवेश इति ।
( द्र० यो० वा० पा० २ सू० ९ ) ।