This page has not been fully proofread.

( ७ )
 
श्रीमच्छङ्गरभगवत्पादा आहुः --अवस्याविशेषा एवेह वैराग्य-
पदेन विवक्षिताः ताश्चावस्था •यतमानसंज्ञाप्रभृतयः । आसु
पूर्वावस्थात्रये वैतृष्ण्यमात्रं भवति, अतो वैतृष्ण्यादन्यदिह वैराग्यं
वशीकारसंज्ञात्मकममिप्रेतम् इति । ( द्र० पा० यो० सू० मा०
वि० पा० १ सू० १५ ) ।
 
नागेशभट्टोऽप्याह --रागाभावमात्रं न वैराग्यम्, रोगादिनिमित्त.
कारुचौ वैराग्यव्यवहाराभावात् । एवं यतमानादिवराग्यत्रयमपि न
चित्तनिरोधहेतुः, तद्वैराग्यानन्तरमपि विषयसान्निध्येन चित्त-
क्षोभतः सौमर्यादेर्योगानिष्पत्तेः । अतो दृष्टविषये आनुभविक-
विषये च वितृष्णस्य यतमानादित्रिविधवैतृष्ण्याभ्यासवतो दिव्या-
दिव्यविषयसन्निधानेऽपि हेयोपादेयत्वबुद्धिशून्यत्वरूपा वशोकारसंज्ञंत्र
वैराग्यं निरोधहेतुरिति ( द्र० पा० सू० वृ० पा० १ सू० १५ ) ।
अपरिणामिनी अत्रतिसङ्क्रमा च चितिशक्ति : - माक्तू वक्तिनं
विषयायाकारेण परिणमते न वा क्रियातो वर्तते तथापि
चितिशक्ति: स्वबुद्धिसंवेदनं करोति । यथा हि चन्द्रमसः क्रिया-
मन्तरेणापि संक्रान्त चन्द्र प्रतिविम्बममलं जलं स्त्रगतय । क्रिया
अचलमपि चन्द्रमसं चलमित्रावभासयति, एव विनाsपि
चितिव्यापारमुपसंक्रान्त चितिप्रतिबिम्वं चितं स्त्रगतया क्रियया
क्रियावतीमपि चितिशक्ति क्रियावतोमसङ्गतामपि सङ्गता मवभासयत्
स्वयं भोग्यभावमासादयति चितिशक्तिञ्च भोक्तृभावमः पादयतीति
( द्र० यो भा० त० वै० पा० ४ सू० २२ ) ।
 
अपानः – मूत्रपुरीषनर्मादीनामपनयनहेतुः शरोरोपगृहोतमारुतविशेषोऽ-
पानः । तस्य चानाभेः आ च पादतलाद् वृत्तिरिति वाचस्पति मिश्राः ॥
( द्र० यो० भा० त० वै० पा० ३ सू० ३९ ) ।
 
विज्ञानभिक्षस्तु -करण नामान्य
 
परिणाममूरूप
 
वृत्तिविशेषोतो मूपुरोषगमदोनाम रणनं वायुविशेरोशान