2023-03-22 01:07:58 by Krishnadaschandran
This page has been fully proofread once and needs a second look.
अग्रिमसूत्रे परवैरागस्य निर्देशात् । यतमानादिसंज्ञात्रयन्तु वराग्य-
मात्रमिति ज्ञेयम् । तथा च योगसूत्रम् - दृष्टानुश्र विकविषय वितृष्णस्य
वशीकारसंज्ञा वैराग्यमिति । सूत्रे यद्यपि वशीकारसंज्ञाया एव चर्चा
ऽस्ति तथापि एतयेव पूर्वासां संज्ञानां चरितार्थत्वात् न ताः पृथ-
गुक्ता इति ( द्र० यो० भा० त० वै० पा० १ सू० १५ ) ।
विज्ञानभिक्षुस्त्वेवं विवृणुते– "विरक्तिर्दोषदर्शनात्" इति स्मृतेः
आदौ विषयसान्निध्यरूपेऽवसरे दोपावरकाभावात् दोषदर्शनेन वैतृष्ण्यं
( वैराग्यम् ) भवति । तच्च वैराग्यं त्रिविधं यतमानसंज्ञा, व्यति-
रेकसंज्ञा, एकेन्द्रियसंज्ञेति । इदमेव वैराग्यत्रयं यदा मुहुरभ्यस्यमानं
भवति, तदा विषयसंयोगकालेऽपि अप्रतिबद्धंदोषदर्शनं समुत्पद्यते ।
अत्र च "वैराग्याद्दोषदर्शन मिति स्मृत्यन्तरं प्रमाणन । दोषदर्शने
प्रतिबन्धाभावश्च प्रसङ्ख्यानबलाद् अर्थात् वैराग्याभ्यासेन जाय-
भानस्य दोषसाक्षात्कारस्य बलवत्त्वादिति । अतएव दाषसाक्षात्कार-
रूपबलाभावात् पूर्वं विरक्तस्यापि सौभर्यादेः विषयसन्निकर्षेण
पूर्वोत्पन्नां दोषदृष्टिं प्रतिबव्य पुना राग उत्पादितः । एतस्मादेव
दोषदर्शनोत्कर्षाद् विषयसंयोगकालेऽपि या चित्तस्यानाभोगा-
त्मिका = आभोगरहिता रागद्वेषशून्या वशीकारसंज्ञा वितृष्णा सा
अपरवैराग्यमिति । तथा च रागद्वेपशून्यस्य विषयसाक्षात्कारस्य
योग्यता वशीकारसंज्ञाख्यं वैराग्यमिति पर्यवसितम् । तथा च हेतु-
हेतुमद्भावरूपतस्तन्त्रान्तरसिद्धं वंराग्यचतुष्टयमेवोक्तम् तत्र ।
प्रथमभूमिका यतमानसंज्ञा वितृष्णा = ज्ञानपूर्वकं वैराग्यसाधना-
नुष्ठानम् । द्वितीयभूमिका व्यतिरेकसंज्ञा, सा च जितान्येतानी-
न्द्रियाणि, एतानि च जेतव्यानीति व्यतिरेकावधारणयोग्यता ।
तृतीयभूमिका च एकेन्द्रियसंज्ञा, सा च बाह्येन्द्र यविषयेषु रूपा-
दिषु रागादिक्षये सति एकस्मिन्नेव मनसि मानापमानादिविषयक-
रागद्वेषादिक्षयो रागद्वेषज्ञानपूर्वक इति । चतुर्थंभूमिका तु वशी-
कारसंज्ञोक्तैवेति । ( द्र० यो० वा० पा० १ सू० १५ ) ।