This page has been fully proofread once and needs a second look.

लतया ज्योतीरूपता विवक्षिता तत्तद्विषयगोचरतया चाकाशवद्
विभुत्वमध्यस्तीति । बुद्धिरत्र मनोऽभिप्रेतम् न तु महत्तत्त्वम् ।
सा बुद्धिरेव सत्त्वबहुलतया बुद्धिसत्त्वमिति गीयते । ( द्र० यो ०
मा० त० ० पा० १ सू० ३६ ) । अत्रत्यं योगवार्तिक-
मप्यनुसंधेयम् ।
 
अन्तर्धानम् , अन्तर्धान
रूपरसगन्धस्पर्शशब्दपञ्चकात्मको हि कायः । तत्र
यदा कायस्य रूपे संयमविशेषो योगिना क्रियते तदा रूपस्य
ग्राह्यतारांक्तिः रूपवत्कायप्रत्यक्षताहेतुः स्तभ्यते । तस्माद् ग्राह्य-
शक्तिस्तम्भे सति योगिनोऽन्तर्धानं = परकीयचक्षुर्जन्यज्ञानाविषयत्वं
"भवतीति । एवमेव कायस्य शब्दस्पर्शरसगन्धेषु संयमात्
तत्तद्ग्राह्यशक्तिस्तम्भे श्रोत्रत्वग्रसनघ्राणजन्यज्ञानाविषयत्वरूप-
मन्तर्धानं शब्दादिमतो योगिनी भवतीति । ( द्र० यो० भा० त०
० पा० ३ सू० २१ ) ।
 
अन्वयः, अन्वय
भूतानां चतुर्थं रूपं ख्यातिक्रियास्थितिशीला: गुणाः
सन्ति, ते च कार्यस्वभावानुपातिनो भवन्ति । त एव भूतजयायें
संयमविषयतयाऽन्वयपदेन गृह्यन्ते । द्रव्यो०भा०पा० ३ सू० ४४) ।
 
अपरवैराग्यम् , अपरवैराग्य
वैराग्यं द्विविधम्, अपरवैराग्यं परवैराग्यञ्चेति ।
तत्रापरवैराग्यं चतुर्विधम्, यतमानसंज्ञा, व्यतिरेकसंज्ञा,
एकेन्द्रियसंज्ञा, वशीकारसंज्ञा चेति । तत्र रागादयः कषायश्चित्त-
वर्तिनः, तैरिन्द्रियाणि विषयेषु यथास्वं प्रवर्तन्ते । तन्मा प्रवतिष-
तेन्द्रियाणि विषयेषु, इतितत्परिपाचनायारम्भः प्रयत्नः, सा यत-
मानसंज्ञा । तदारम्भे सति केचित् कषायाः पक्वाः पच्यन्ते
पक्ष्यन्ते च केचित् । तत्र पक्ष्यमाणेभ्यः कषायेभ्यः पक्वानां व्यति-
रेकेणावधारणं व्यतिरेकसंज्ञा । इन्द्रियप्रवर्तनासमर्थतया पक्वाना-
मौत्सुक्यमात्रेण मनसि व्यवस्थापन मेकेन्द्रियसंज्ञा । श्रीत्सुक्यमात्र-
स्थापि निवृतिरुपस्थितष्वेपि दिव्यादिव्य विषयेषु उपेक्षाबुद्धिः
पूर्वोक्तसंज्ञायात् परा वशीकारसंज्ञा । इयमेव वस्तुतोऽपरवैराग्यम् ।