This page has been fully proofread once and needs a second look.

( ४ )
 
सितधर्मविशिष्टो धर्मी अनुमेयः तस्य तुल्य जातोया: सपक्षाः, तेष्वनु-

वृत्तः, तथा विभिन्नजातीयेभ्योऽसपक्षेभ्यो ( विपक्षेभ्य इति यावत् )

व्यावृत्तो यः सम्बन्धो = लिङ्गम्, सम्बध्यते इति सभ्बन्ध इति

व्युत्पत्तेः । एवं विधलिङ्गविषया = लिङ्गनिबन्धना या सामान्याव-

धारणप्रधाना वृत्तिः सा अनुमानमित्यर्थः । ( द्र० यो० मा० do

वै० पा० १ सू० ७ ) ।
 
2
 

 
अनेकं कर्म एकस्य जन्मनः कारणम्- , अनेकं कर्म एकस्य जन्मनः कारण
जन्ममरणान्तराले
कृत:
पुण्यापुण्यकर्माशयप्रचयो विचित्र: ( अनेक: ) प्रधानोपसर्जनभावेना-

वस्थितो मृत्युनाऽभिव्यक्तोऽर्थात् मरणकाले प्रारब्धकर्मभोगसमाप्त्या

लब्धावसरः सन् एकप्रघट्टकेन मिलित्वा मरणं प्रसाध्य जन्मादिरूपे

कायें कर्तव्ये एकलोलीभावमापन्नः एकमेव जन्म
करोति,

नानेकम् । अतो ऽनेकं कर्म मिलित्वा एकस्य जन्मनः कारणमिति

सिद्धान्तः । ( द्र० यो० भा० त० वै० तथा यो० वा० पा० २

सू० १३ ) ।
 
M
 

 
कृत:
 

 
अन्तरायाः, अन्तराया
व्याधिः, स्त्यानम् ( अकर्मण्यता चित्तस्य ), संशयः,

प्रमाद:, आलस्यम्, अविरतिः ( चित्तस्य विषयसंसर्गजन्या तृष्णा ),

भ्रान्तिदर्शनम् (विपर्ययज्ञानम् ), अलब्धभूमिकत्वम् ( मधुमत्यादि-

समाधिभूमोना मेकतमस्या अपि साधनानुष्ठानेऽप्यलाभ: ), अनवस्थि-

तत्वम् ( लब्धायां भूमौ चित्तस्याप्रतिष्ठितत्वम् । चित्तेऽप्रतिष्ठिते

तु समाधिस्रेष:स्यात्ततः तस्या अपि भूमेरपाय: स्यात् । अतः

समाधिप्रतिलम्भे चित्तमवस्थितं कर्तुं प्रयतितव्यम् साधकेनेति ) ।

इत्थं नवान्तराया भवन्ति योगस्य । एते एव चित्तविक्षेपा इति,

योगमला इति, योगप्रतिपक्षा इति च कथ्यन्ते । ( द्र० यो० मा०

त० वै० पा० १ सू० ३०) ।
 
-
 

 
अन्तःकरणस्य विभुत्वम् , अन्तःकरणस्य विभुत्व
बुद्धिसत्त्वं हि भास्वरमाकाशकल्पमिति

वदता भाष्यकारेणान्तःकरणस्य वैकारिकाहङ्कारजन्मनः सत्त्वबहु-