2023-03-12 05:50:44 by ambuda-bot
This page has not been fully proofread.
( ४ )
सितधर्मविशिष्टो धर्मी अनुमेयः तस्य तुल्य जातोया: सपक्षाः, तेष्वनु-
वृत्तः, तथा विभिन्नजातीयेभ्योऽसपक्षेभ्यो ( विपक्षेभ्य इति यावत् )
व्यावृत्तो यः सम्बन्धो = लिङ्गम्, सम्बध्यते इति सभ्बन्ध इति
व्युत्पत्तेः । एवं विधलिङ्गविषया = लिङ्गनिबन्धना या सामान्याव-
धारणप्रधाना वृत्तिः सा अनुमानमित्यर्थः । ( द्र० यो० मा० do
वै० पा० १ सू० ७ ) ।
2
अनेकं कर्म एकस्य जन्मनः कारणम्- जन्ममरणान्तराले
पुण्यापुण्यकर्माशयप्रचयो विचित्र: ( अनेक: ) प्रधानोपसर्जनभावेना-
वस्थितो मृत्युनाऽभिव्यक्तोऽर्थात् मरणकाले प्रारब्धकर्मभोगसमाप्त्या
लब्धावसरः सन् एकप्रघट्टकेन मिलित्वा मरणं प्रसाध्य जन्मादिरूपे
कायें कर्तव्ये एकलोलीभावमापन्नः एकमेव जन्म
करोति,
नानेकम् । अतो ऽनेकं कर्म मिलित्वा एकस्य जन्मनः कारणमिति
सिद्धान्तः । ( द्र० यो० भा० त० वै० तथा यो० वा० पा० २
सू० १३ ) ।
M
—
कृत:
अन्तरायाः – व्याधिः, स्त्यानम् ( अकर्मण्यता चित्तस्य ), संशयः,
प्रमाद:, आलस्यम्, अविरतिः ( चित्तस्य विषयसंसर्गजन्या तृष्णा ),
भ्रान्तिदर्शनम् (विपर्ययज्ञानम् ), अलब्धभूमिकत्वम् ( मधुमत्यादि-
समाधिभूमोना मेकतमस्या अपि साधनानुष्ठानेऽप्यलाभ: ), अनवस्थि-
तत्वम् ( लब्धायां भूमौ चित्तस्याप्रतिष्ठितत्वम् । चित्तेऽप्रतिष्ठिते
तु समाधिस्रेष:स्यात्ततः तस्या अपि भूमेरपाय: स्यात् । अतः
समाधिप्रतिलम्भे चित्तमवस्थितं कर्तुं प्रयतितव्यम् साधकेनेति ) ।
इत्थं नवान्तराया भवन्ति योगस्य । एते एव चित्तविक्षेपा इति,
योगमला इति, योगप्रतिपक्षा इति च कथ्यन्ते । ( द्र० यो० मा०
त० वै० पा० १ सू० ३०) ।
-
अन्तःकरणस्य विभुत्वम् – बुद्धिसत्त्वं हि भास्वरमाकाशकल्पमिति
वदता भाष्यकारेणान्तःकरणस्य वैकारिकाहङ्कारजन्मनः सत्त्वबहु-