This page has not been fully proofread.

( ३ )
 
न हि मनुष्यशरोरेण तत्परिणामभेदेन वा सा तादृशी वत्सरसहस्रादि-
निरन्तरोपभोग्या वेदना सम्भवतीत्यदृष्टजन्मवेदनीय: स नारकाणां
कर्माशयः । द्रष्टव्यं योगभाष्यं तत्रत्या तत्त्ववैशारदी च ( पा० २
सू० १२ ) ।
 
अधिमात्रतीत्रः – अधिमात्रोपाया योगिनोऽपि त्रिधा भवन्ति,
मृदुतीब्रसंवेगी, मध्यतीव्र संवेगोऽधिमात्रतीव्र संवेगश्चेति । एषु
यस्तृतीयोऽविमात्र तीव्र संवेगस्तस्य तु अधिमात्रोपायस्य सतः
आसन्नतमः समाधि लामो भवतीति । एवंविधो योगी अधिमात्रो-
पायत्वे सति अधिमानतीव्रः = अर्थात् अधिमानतीव्रसंवेग इत्युच्यते ।
( द्र० यो० भा० पा० १ सू० २२ ) ।
 
अधिमात्रोपायः – उपाया: श्रद्धा वीर्य स्मृतिः समाधिः प्रज्ञा चेति
 
-
 
पश्च सन्ति असंम्प्रज्ञातसमाधिसिद्धेः । तत्र प्राग्भवीयसंस्कारा
दृष्टवशाद् येषां योगिनां श्रद्धाद्याः प्रज्ञान्ता उपाया अधिमात्रा-
भवन्ति, तेऽधिमात्रोपाया योगिनः कथ्यन्ते । एवमेव केचिन्मृदूपाया:
केचिच्च मध्योपाया भवन्ति योगिनः ।
 
अनन्तसमापत्तिः - आसननिष्पत्तिकारणमनन्तसमापत्तिः । यथा च
स्वाभाविक प्रयत्नशेथिल्यमासनसिद्धिहेतुस्तथैवानन्ते नागनाथे स्थिरतर-
फणासहस्र विधृतविश्वंभरामण्डले समापन्नं तद्धारणया तदात्मतापन्नं
चित्तमासनं निष्पादयति । ( द्र० यो० मा० त० वै० पा० २
सू० ४७ ) । तच्च तदनुग्रहात् सजातीयभावनावशाददृष्टवशाद्वेति
विज्ञानभिक्षुर्नागिश भट्ट श्चेति । (द्र० यो० वा० तथा पा० सू० वृ०
पा० २ सू० ४४) आकाशादिगते आनन्त्ये चेतसः समापत्तिरनन्त-
समापत्तिरितिभोजदेवः ।
 
अनुमानम् – अनुमेयस्य तुल्यजातीयेष्वनुवृत्तो भिन्नजातीयेभ्यो व्या-
वृत्तः सम्बन्धो यस्तद्विषया सामान्यावधारणप्रधाना वृत्तिरनुमानम्
इति योगभाष्यम् । व्याख्यातं चेतद् वाचस्पतिमिश्रः, यथा जिज्ञा-