This page has been fully proofread once and needs a second look.

( २ )
 
तेन योगानुशासनं शास्त्रमधिकृतं वेदितव्यमिति सूत्रार्थ: सम्पद्यते ।

अधिकारश्च आरम्भणम्, अधिकारशब्दस्य योगरूढतया आरम्मण

एव मुख्यत्वात् । अतोऽत्र योगशास्त्रस्याधिकार्यत्वम् = आरम्भणीयत्वं

मुख्यमेवास्तीति विज्ञानभिक्षुः । वाचस्पतिभिः सूत्रस्थाथशब्दस्या-

धिकारार्थत्वे दृष्टान्त उक्त: "अथैष ज्योतिरितिवत्" इति । यद्यप्य

दृष्टान्ते ज्योतीरूपस्यार्थस्याधिकायंत्वं मुख्यं न संभवति अर्थस्या-

नधिकार्यत्वात् तथापि अधिकार्यशास्त्र विषयतथा तत्र गौणमधि-

कार्यत्वमस्त्येवेति तस्य दृष्टान्तत्वमुपपद्यत एवेत्याशयः
 
-
 
भवति ।
 

अधिकारार्थोऽप्ययमथशब्दोऽन्यार्थं नीयमानोदकुम्भ इब दर्शनेन

श्रवणमात्रेण मङ्गलायापि कल्पते । ( द्रष्टव्ये योगवार्तिकतत्त्ववैशा-

रद्यौ यो०द०पा० १ सू० १) वृत्तिकारोऽप्याह - अथ शब्दोऽधिकार-

द्योतको मङ्गलार्थकश्चेति । (द्र० यो० सू० मो० वृ० पा० १ सू०१) ।

 
अदृष्टजन्मवेदनीयः कर्माशय: - , अदृष्टजन्मवेदनीयः कर्माशय
पुण्यापुण्यकर्माशयो लोभमोह-

क्रोधप्रभवः । स दृष्टजन्मवेदनीयश्चादृष्ट जन्मवेदनीयश्च
भवति ।
अस्मिन्नेव जन्मनि फलदानाय परिपच्यमानः कर्माशयो ( घर्माधिमी )

दृष्ट जन्मवेदनीयः । भविष्यज्जन्मनि च फलदानाय परिपक्ष्यमाणः

कर्माशयो (धर्माधमौ) अदृष्टजन्मवेदनीयो भवति । तत्र तीव्रसंवेगेन

मन्त्रतपः समाधिभिनिष्पादितः ईश्वरदेवतामहर्षिमहानुमावा-

नामाराधनाद् वा परिनिष्पन्नो यः पुण्यकर्माशयः स सद्यः ( इहैव

जन्मनि ) परिपच्यते । यथा नन्दीश्वरः कुमारो मनुष्यपरिणामं

हित्वा देवत्वेन परिणतः । एवं तीव्रक्लेशेन भीतव्याधितकृपणेषु

विश्वासोपगतेषु वा महानुभावेषु वा तपस्विषु कृतः पुनः पुनरप-

'कारोऽपि पापकर्माशयोऽधर्मरूपः सद्य एव परिपच्यते । यथा

नहुषो देवानामिन्द्रोऽपि स्वकं परिणामं हित्वा तिर्यक्त्वेन (सर्पस्वेन)

परिणतः । इति दृष्टजन्मवेदनीयकर्माशयोदाहरणे । एवं कुम्भी-

पाका दिन रक भेदप्रापको नारकाणां कर्मांशयोऽदृष्टनन्मवेदनीयः ।