This page has been fully proofread once and needs a second look.

॥ श्रीगणेशाय नमः ॥
 
योगकोशः
 
नमः सूत्रप्रणेतृभ्यो भाष्यकृद्भ्योऽपि भूरिशः ।
विधाय योगशास्त्रस्य प्रणये कोशमिष्टदम् ॥
 
अङ्गमेजयत्वम् , अङ्गमेजयत्व
यदङ्गानि एजयति = कम्पयति तस्य भावोऽङ्गमेज-
यत्वम् सर्वाङ्गोणो वेपथुः ।
 
अणिमादयः, अणिमादि
अणिमा, लघिमा, महिमा, गरिमा प्राप्तिः, प्राकाम्यम्,
वशित्वम्, ईशितृत्वम् इत्येतान्यष्टौ ऐश्वर्याणि ।
 
अतीतानागतज्ञानम् , अतीतानागतज्ञान
धर्मंलक्षणावस्थारूपपरिणामत्रये संयमात्
धारणाव्यानसमाधिरूपात् योगिनामतीतानागतज्ञानं भवतीति
योगमाष्यम् ( द्र० पा० ३ सू० १६ ) ।
अत्राहुर्वाचस्पतिमिश्राः-- परिणामत्रयं साक्षात्क्रियमाणं तेषु परिणा-
मेष्वनुगते ये अतीतानागते, तद्विषयं ज्ञानं सम्पादयति । परिमाणत्रय-
साक्षात्करणमेव तदन्तर्भूतातीतानागतसाक्षात्करणात्मकमिति संयम-
साक्षात्कारयोर्न विषयभेदापत्तिरिति । (द्र० त०व०पा० ३ सु० १६) ।
विज्ञानभिक्षुस्तु – संयमसाक्षात्कारयोविषयभेदेऽपि न काप्यसङ्गतिः !
अन्यविषयकसंयमात् प्रतिनियतपदार्थान्तरसाक्षात्कारश्च योगजधर्म-
बलाद् भवतीति शास्त्रप्रामाण्यादवघार्यंते, धर्मविशेषात् स्वर्ग-
विशेषवत्, तपोजन्यसिद्धिवत्, भुवनज्ञानं सूर्ये संयमादिति सिद्धि-
वच्चेत्याह । ( द्र० यो० वा० तत्रैव ) ।
 
अथ, अथ
"अथ योगानुशासनम्" इति सूत्रगतस्य अथेति शब्दस्य
अधिकारोऽर्थः । तथा च भाष्यम्-'अथेत्ययमधिकारार्थः' इति ।