This page has not been fully proofread.

एवमेकशास्त्राभ्यासं सम्पादयतः कृते इतरशास्त्रविषयककोशा यथा
सहायका भवन्ति तथैव स्वशास्त्र मभ्यसतः कृते ऽपि स्वशास्त्रीयकोशस्यापि
भूयानुपकारोऽस्ति । यतो ह्येकैकस्मिन् शास्त्रेऽनेके ग्रन्थाः सन्ति, न
चेकेन' ते सर्वेऽम्यसितुं शक्यन्ते । अतोऽभ्यसनीयशास्त्रसम्बन्धिकोश-
लामवेत् तदा श्रमं कालयापनं च विनैवेष्टविषयांशज्ञानं सहसैव भवितु-
मर्हति । तेनैव कारणेन सांख्ययोगशास्त्रयोः कोशग्रन्थाभावमालक्ष्य
तत्पूर्तिकामनया मम हृदि साङ्ख्ययोगकोशनिर्माणबुद्धिरुत्पन्ना। यतो
बहुपूर्व न्यायशास्त्रे श्रोभोमाचार्यझलकीकरकृतो न्यायकोशः, पूर्व-
मीमांसाशास्त्रे केवलानन्दसरस्वतीकृतो मीमांसाकोशश्वेदानीमुपलब्धौ
स्तः । अन्येष्वपि वेदान्तव्याकरणायुर्वेदादिशास्त्रेषु कोशग्रन्थाः सन्ति
रचिता रच्यन्ते चेदानीमपि । वैदिकोशास्तु अनेके सन्ति दैशिक-
वैदेशिकपण्डितैनिर्मिताः । योगवेदान्तकोशनामा एको योगमिश्रितः
कोशः श्रीशिवानन्दविरचितो वर्तते समुलभ्यस्तथापि स ग्राङ्गलभाषायां
विद्यतेऽपर्याप्तश्च वर्तते । तथापि सांख्ययोगशास्त्रयोः सुखप्रवेशसाधनभूतोः
कोशात्मको निबन्धो नाद्यावधि केनापि विदुषा विहित इति । अहमेतत्कोश-
निर्माणाय प्रवृत्तः ।
 
यत्र तत्रागताः साङ्ख्ययोगशब्दाः प्रायः सर्वं एवात्र कोशे विभिन्न-
ग्रन्थाधारेण सन्निवेशिताः, तेषामभिप्रायश्च विभिन्नाचार्यानुसारं वर्णितः ।
यत्र विशेषोद्धरणं नापेक्षितं तत्र कमपि सन्दर्भमनुल्लिख्यैव स शब्दो
विन्यस्तः । यद्यत्र किमपि न्यूनत्वं स्खलनं वा भवेत् तन्मर्षणीयं विद्वद्भि-
मंयापि च संशोधयिष्यते संस्कारणान्तर इति ।
 
यैविपश्चिद्भिः स्वबहुमूल्यसम्मतिप्रदानेनामनुगृहीतस्तेषामहं भृशं
कृतज्ञोऽस्मीति निवेदयति-
-
 
प्रणेता