This page has been fully proofread once and needs a second look.

( ७ )
 
योगसूत्रेषु व्यासभाष्यं वेदान्तसूत्रेषु शारीरकभाष्यवदेवातिगभीरं

साकल्येन योगसिद्धान्त प्रतिपादकश्वास्ति । तदुपरि षड्दर्शनारण्या-

नीपश्चाननानां श्रीमद्वाचस्पतिमिश्राणां यथार्थनाम्नी तत्त्ववैशारदीटोका

नूनं शारीरकभाष्योपरि तदीयभामतीव सुविशदा भाष्यगभीराशयामि-

व्यञ्जिका प्राञ्जला च विराजत इति महदुपकृतमस्य शास्त्रस्य तैरिति

मन्यामहे । योगममंज्ञानां विज्ञानभिक्षूणां योगवार्तिकमपि महत्त्वपूर्ण

प्रमाणनिचयरवचितं क्वचित् स्वतन्त्रविचारमरितञ्चास्तीति माध्यस्य

सोऽप्यपूर्वी व्याख्याग्रन्थ उपलभ्यते । क्वचित् क्वचिद् वाचस्पतिमिश्राणां

विरोधोऽपि तेन कृत इति तस्य युक्तत्वायुक्तत्वे पृथगेव विचारणीये ।
 

योगभाष्यस्योपरि श्रीमद्भगवत्पादेन शङ्कराचार्येण निर्मितं विवरण-

मप्युपलभ्यते । अयमाद्य एव शङ्कराचार्य इति बहवो विद्वांसोऽभ्युपयन्ति ।
 

अन्यानपि च नागेशभट्टप्रभृतिनिमितान् वृत्तिग्रन्थान् योगमञ्जरी-

योगचिन्तामणि - हठयोगप्रदीपिका– योगवाशिष्ठादिग्रन्थान् च सन्दर्भरूपेण

समाश्रित्य कोशोऽयं मया निरमायि । अन्ते च 'आपरितोषाद् विदुषां

न साधु मन्ये प्रयोगविज्ञानम्" इति कालिदासीयं पद्यं स्मरन् अयमपरोऽपि

मत्प्रयासो यदि विदुषां सन्तोषाय जिज्ञासुजनलाभाय च मबेच्चेदात्मनः

प्रयासस्यास्य साफल्यं मन्य इति शिवम् ।
 

 
जुलाई, १९७४
 

 
विदुषामाश्रव :-

केदारनाथ त्रिपाठी
 

 
( दर्शनविभागाध्यक्षः )

काशीहिन्दूविश्वविद्यालयः

वाराणसी