This page has been fully proofread once and needs a second look.

( ६ )
 
इदमप्येकं मतं वर्तते यच्चरकः शेषनागस्यावतारोऽभूत् । एतदा-

घारेण कतिपयविदुषामनुमानमस्ति यत् स नागजातीयः कश्चिदार्य

आसीत् । पतञ्जलिरपि शेषावतारो मन्यते । अतश्चरक । पतञ्जलिरेवेति

तेषां मतम् ।
अस्मात् कारणात् चरकस्य पतञ्जलित्वं साधयन्तस्ते

योगसूत्रकारस्य महाभाष्यकारनामसाम्यात् पतञ्जलित्वं स्फुटमिति कृत्वा ते

कथयन्ति यत् पतञ्जलिरेव चरको नान्यस्तथा योगसूत्राणां चरकसंहिताया

महाभाष्यस्य च रचयिता एक एव पत्नञ्जलिरासीदिति ।
 

इत्थं पतञ्जलेरेकत्वानेकत्व विसंवादे आचार्यप्रियव्रतशर्माणः स्वीये

चरकचिन्तने उभयपक्षसमर्थिकाः युक्तीः समुपस्थापयन्तः बहुषु स्थलेषु

महाभाष्यकारेण सह चरकयोगसूत्रकारयोरेकत्वसमर्थंकं साम्यं प्रदश्यं

षड्मिहॅतुभिर्मंहाभाष्यकारचरकयोः पञ्चमिश्च हेतुभि: योगसूत्रकारचरक-

योर्वैभिन्न्यं साधितवन्तः । आयुर्वेदस्य वृहदितिहासेऽत्रिदेवो लिखति-

योगसूत्रमहाभाष्ययोः रचयिता एक एत्र पतञ्जलिरिति नास्ति निचय

इति । पृ० ४७५
 

अपरे च कथयन्ति – महामाण्येऽने कशब्द एकवचनान्त एव स्वीकृतो

दृश्यते नञ् सूत्रभाष्ये, किन्तु "प्रवृत्तिभेदे प्रयोजकं चित्तमेकमनेकेषाम्"

इति योगसूत्रे बहुवचनान्तप्रयोगो वर्तते । अयं शब्दप्रयोगभेदः पतञ्जलि -

भेदं गमयति । एवं वैद्यके वा योगे वा व्याकरणे वा कस्मिन्नपि प्राचीन-

ग्रन्थे त्रयाणामैक्यसङ्केतो नासाद्यते । न वा वाचस्पतिभिश्रादिवत् स्व-

कृतित्वेनान्यतमस्मन् ग्रन्थे अन्यतमस्य ग्रन्थस्य स्वयं पतञ्जलिना कृतः

क्वचिदुल्लेखो दृश्यते ।
 

अस्यां स्थिती प्रवादपारम्पर्येण त्रयाणामेकत्वं तत्र प्रवलप्रमाणाभावेन

चानेकत्वमध्यवसीयते विभिन्नविद्वद्भिः । वस्तुतः त्रयाणां महाभाष्य-

योगसूत्रचरकसंहिताग्रन्थानां कालनिर्णयोऽपि पतञ्जलेरैक्यानैक्यनिर्णये

सहायको भवितुमहंतीति स्वतन्त्ररूपेण पूर्वं तेषां ग्रन्थानां कालनिर्णयो

पेक्षितोऽस्तीति पृथगेवात्र विषये कदाचिद् विचारयिष्यते ।