This page has been fully proofread once and needs a second look.

अत्रोदयवीरशास्त्री प्रतिपादयति - एक एव विद्वान् व्याकरणमहा-
भाष्यं योगदर्शनञ्च रचितवानिति कथनं सर्वथा नियुक्तिकम् । एतदनुसारं
वेदान्तदर्शने. "एतेन योगः प्रत्युक्तः" इति सूत्रेण पातञ्जलयोगस्योल्लेखः
कृतः अतो वेदान्तसूत्रकारात् व्यासाद् बहुपूर्वं योगसूत्रकार: पतञ्जलिरंभूद्
यदा तु महाभाष्यकार: पतञ्जलिविक्रमादित्यात् केवलं वर्षशतद्वयपूर्व-
मेवाभूदिति । अत उभौ पतञ्जली भिन्नावेवेति ।
उमयोः पतञ्जल्योरैक्यसमथंकास्तु समादधति यदुक्तसूत्रे योगसामान्य-
मेवाभिप्रेतम् न तु पातञ्जलो योगः । अतो महाभाष्यकारपतञ्जलिरेव
योगसूत्रकारपतञ्जलिरिति ।
भोजदृष्टी अहिपतिशेषनागावतारभूतः पतञ्जलियोंगसूत्राणां रचयिता ।
स एव व्याकरणमहाभाष्यरचयिता चरकसंहितायाः प्रतिसंस्कर्ता
चास्ति ।
चरकसंहिताटीकाकारश्चक्रपाणिराह-
पातञ्जलमहाभाष्यचरकप्रतिसंस्कृतैः ।
मनोवाक्कायदोषाणां हन्त्र हिपतये नमः ॥ इति ।
कायवाग़बुद्धिविषया ये मलाः समवस्थिताः ।
चिकित्सालक्षणाध्यात्मशास्त्र तेषां विशुद्धये ॥
( वाक्यपदीयं ब्रह्मकाण्डम् )
इति चरके पतञ्जलि: " ( नागोजीभट्टः )
"सूत्राणि योगशास्त्रे वैद्यकशास्त्रे च वार्तिकानि ततः ।
कृत्वा पतञ्जलिमुनिः प्रचारयामास जगदिदं त्रातुम् ॥"
( इतिपतञ्जलिचरिते रामभद्रदौक्षितः )
इत्येवमादीनि वचनान्येवाधृत्य त्रीनपि पतञ्जलीने कत्वेनाव्यवस्यन्ति
बहवो विद्वांसः ।