This page has not been fully proofread.

( ४ )
 
-
 
पतञ्जले: पालको गुरुश्वासीत् । महाभाष्ये उक्तम् - गोनर्दीयस्त्वाहेति ।
( ३।२।११८ ) । ( शब्देन्दुशेखरः पृ० २ ) ।
 
पतञ्जलेर्जन्मस्थानम्
 
अस्य मुनेः स्थानसम्बन्धे "गोनर्दीयस्त्वाहे" तिकथनात् गोनदंदेशवासी
अयमिति । स च गोनदंदेशोऽद्यतनो 'गोण्डा' इति निश्चिनोति श्रीराम-
कृष्णगोपालभण्डारकरः । ( रसयोगसागर पृ० २०) किन्त्विदं कथनं
 
बुद्धिमारोहति । यतो महाभाष्यकार आत्मनः कृते "गोनर्दीय" इति
नाह किन्तु वार्तिककारस्यैव कृते तदाह । पतञ्जलिस्तु पुष्यमित्रं
यजामहे, चन्द्रगुप्तसभेत्यादिकथनात् पाटलिपुत्रवासोति प्रतीयते ।
 
"
 
केचितु "काश्मीरान् गमिष्यामो देवदत्त ! तत्र सक्तून् पास्यामः,
अभिजानासि देवदत्त ! यत् काश्मीरेषु वत्स्यामः" इति महाभाष्यवचनात्
काश्मीरवासीति कथयन्ति । किन्तु मथुरापाटलिपुत्रयोः विशेषेण चर्चा-
दर्शनात्, काश्मीरसम्बन्धे भविष्यत्कालप्रयोगाच्च पाटलिपुत्रवास्येव
पतञ्जलिनं काश्मोरवासीति निचिन्वन्ति ।
 
काल।
 
"पुष्यमित्रं यजामहे, चन्द्रगुप्तसभा" इत्यादिप्रयोगात् १५० ई० वर्ष-
पूर्वं पतञ्जलिरभूत् इत्याह दामोदरप्रसादशर्मा । किन्तु यदि तमते
चरकपतञ्जली अभिन्नौ तदा ई० पू० १५० तमे वर्षे विद्यमानः स ततः
पश्चाद् द्विशतवर्षानन्तरं कनिष्कस्य राजवैद्यः कथङ्कारं भवितुमर्हति ?
एतदर्थं २५०-३०० वर्षाणि यावद् योगवलात् सोऽजीवदिति मन्यते
शास्त्री ।
 
.
 
किन्तु पतञ्जलिसम्बन्धिन उक्तविचाराः महाभाष्यकारपतञ्जलि-
सम्बन्धिन एव वर्तन्ते । त एव विचारा योगसूत्रकारपतञ्जलिसम्बन्धेऽपि
घटन्त इति तु निर्णयस्तावदवशिष्यत एव यावत्तयोरक्यं न निर्णीत
भवेत् ।