This page has been fully proofread once and needs a second look.

( ३ )
 
-
 
विदुषां मतमस्ति - चरकसम्प्रदायवत् शङ्कराचार्य सम्प्रदायवच्च पात-

ञ्जलसम्प्रदायोऽप्यासीत्, यस्य वर्णनं बहुकालानन्तरं पाणिनिना पात-

ञ्जलशब्दोल्लेखेन कृतम्, तदुपरि महाभाष्यकारेण च लिखितम् - पात-

ञ्जला: = पतञ्जलेः शिष्यसम्प्रदाय इति । द्वितीयो मुनिपतञ्जलि-

वर्तमानसमयात् त्रिसहस्रवर्षं पूर्वं काश्मीरे मद्रदेशेऽभूत् । तेन नवमेकं दर्शन-

शास्त्रमाविष्कृतं दर्शनसम्बन्धिग्रन्थद्वयश्व निर्मितम् – परमार्थंसारः पञ्च-

शती चेति । अस्मादारुणिरुद्दालको ज्ञानमग्रहीदित्युल्लेखो ' ‍१बृहदारण्य-

कोषनिषदि वर्तते । ( ३१७१० ) वेदानां मननान्मुनिरिति । तृतीय

आचार्यपतञ्जलिरितः पश्चदशशतवर्षंपूर्वं जातः कश्चिद्रसायनाचार्यः । अस्य

'लौहशास्त्र रसशास्त्रादयोऽनेके रसग्रन्थाः सन्ति । चतुर्थ कोशकारपतञ्ज-

लिर्योऽभिधानचिन्तामणौ प्रामाण्यं वासुकेरिति निर्दिष्टः । अमरकोशेऽ-

प्यस्योदाहरणानि दत्तानि सन्ति । पञ्चमो महामुनिपतञ्जलियों महाभाष्य-

योगदर्शनयो रचयिता चरकसंहितायाश्च प्रतिसंस्कर्तेति । अयमेव "योगेन

चित्तस्य पदेन वाचां मलं शरीरस्य तु वैद्यकेन । योऽपाकरोत्तं प्रवरं

मुनीनां पतञ्जलि प्राञ्जलिरानतोऽस्मि" इति पद्ये निर्दिष्ट: । अयश्व

राज्ञः पुष्यमित्रस्य समकालीन: इत्यत्र "पुष्यमित्रं यजामहे, पुष्यमित्रं

याजयामः" इति महाभाष्यं प्रमाणीकरोति । अयमेव चरकसम्प्रदायानु-

यायितया चरकः पातञ्जलशिक्षा संस्थानस्याचा यंतया च पतञ्जलिरित्या-

ख्यातः । अस्य वास्तविकं नाम जय इति, माता चास्य जया पिता च

विजय इत्यासीत् । श्रयं काश्मीरनिवासी कात्यायनस्य पालितः पट्टशिष्य

आसीत् । शेषस्य सर्वाणि नामान्यस्थ पर्यायाणि मन्यन्त इति ।
 

 
नागेशभट्टानुसारं गोनर्द ( सरस्वती ) तीरे तपस्यत ऋषेरञ्जली

पतनात् पतञ्जलिरिति नामाभूत् । स च ऋषि: कात्यायन एव गोनदींय
 

 
१. टि० बृहदारण्यकोपनिषदि पतञ्चल इति नाम दृश्यते न पतञ्जलि-

रिति ध्येयम् ।