This page has been fully proofread once and needs a second look.

( २ )
 
क्षतायां साङ्ख्यशास्त्र वदेव योगशास्त्रस्यापि ग्रन्थसम्पत्तिनं तावती भूय-

सीति न विदुषां तिरोहितमेतत् । एवं सत्यपि योगभाष्यतत्त्ववैशारदीयोग-

वार्तिकप्रभृतयो ग्रन्था योगशास्त्र सिद्धान्त विज्ञानाय पर्याप्ताः सन्तीति नात्र

सन्देहलेशोऽपि । एतेष्वपि योगमाष्येणैव संक्षेपेण सर्वोऽपि योगविषय:

प्रायेण कवलोकृत इति तदीयविशदव्याख्यान एव प्रयतमाना दृश्यन्ते तत्त्व-

वैशारदीकारा विवरणकारा योगवार्तिककाराश्चेति तेषां व्याख्यानप्रामा-

णिकतामनुरुध्यैव कोशोऽयं मया निरमाथि । अन्ये च वृत्तिकारादयः

प्रायस्तावानुसरन्तीति तत्त्तत् स्थलेषु मया निरदेशि । वाचस्पतिमिश्र -

विज्ञानभिक्षुव्याख्यानयोर्भेदोऽपि कवचिद् दृश्यमानोऽधीतिजनबुद्धिवैश द्या-

 

यैव कल्पेतेति मन्ये ।
 

 
योगशास्त्रस्य प्रवर्तकः
 

 
यद्यपि हिरण्यगर्भ एव योगस्याद्यो वक्तेति "हिरण्यगर्भो योगस्य वक्ता

नान्यः पुरातनः" इयि वचनात् प्रसिद्धिरस्ति, तथापि योगस्य शास्त्ररूपेण

प्रवर्तको महर्षिः पतञ्जलिरेवेत्यत्र नास्ति सन्देहः ।
 

 
स चायं पतञ्जलि। कः ? काञ्चासी भुवमलञ्चकार ? काश्च तस्य

कृतय इति विषयेऽस्ति महान् विसंवादो विदुषाम् । अपतत् अञ्जल्या

यः स पतञ्जलिः, अथवा अञ्जलिर्नमस्यतयाऽपतद् यस्मै स पतञ्जलि

रिति पतञ्जलिशब्दस्य द्वेधा व्युत्पत्तिः । अत्रत्यं कथानकञ्चान्यतोऽ..

नुसन्धेयम् ।
 

 
पतञ्जलिनामानः पश्चाभूवन्निति दामोदरप्रसाद शर्मा प्रतिपाद-

यति । तद्यथा-महर्षिपतञ्जलिः, मुनिपतञ्जलि।, आचार्यपतञ्जलिः,

कोशकारपतञ्जलि, महामुनिपतञ्जलिश्चेति । तदनुसारमाद्यो महर्षि-

पतञ्जलिवर्तमानकालात् पश्चसहस्रवर्षपूर्ववर्ती शुक्लयजुर्वेदस्य पातञ्जल-

शाखाया द्रष्टा, निदानसूत्रस्य वैदिकग्रन्थस्य च रचयिताऽभूत् । कतिपय-