This page has been fully proofread once and needs a second look.

प्रस्तावना
 

 
अथायं प्रस्तूयते पातञ्जलदर्शनोपजीव्योऽभिनवो योगकोशोऽपि मया

विदुषां प्रमोदाय जिज्ञासुजनकल्याणाय चेति स्वमनसि महत्सन्तोषमनु-

भवन्नस्मि । योगशास्त्रस्यापि चतुर्दश विद्यान्तगंतत्वं साङ्ख्यशास्रवदे-

वास्ति, "अङ्गानि वेदाश्चत्वारो मीमांसा न्यायविस्तरः । पुराणं धर्म-

शास्त्रञ्च विद्या होताश्चतुर्दश ॥" इत्यत्र न्यायविस्तरपदेनास्थापि संगृही-

तत्वादिति मन्तव्यम् ।
 

 
साङ्ख्ययोगशास्त्रयोभिन्न प्रवक्तृकत्वेऽपि बाला एव केचन साङ्ख्ययोगौ

पृथगिति वदन्तीति भगवद्गीतायां स्पष्टमुक्तम् । वस्तुतस्तु परस्परपूरकत्व-

मेवानयोः शास्त्रयोर्वरीवति । कथमन्यथा निःसाधनं साङ्ख्यज्ञानमुत्पत्तु-

मपि प्रभवेत् निर्लक्ष्यो वा योग आश्रीयेत केनापि सचेतसेति विभावयाम॥

अतः साध्यसाधनयोरिव घनीभूतः सम्बन्धः साङ्ख्ययोगयोरप्यस्ति ।

अतएव च सांख्ययोगयोरेकतरमन्यतरस्मात् पृथक् कर्तुमशक्यमेव । योग-

सूत्रेषु योगभाष्ये च यथा भोगापवर्गयोर्बन्धमोक्षयोः, बुद्धिसत्वपुरुषयोश्च

वर्णनं वरीवति, तत्सर्वं साङ्ख्यमेवास्तीति । वस्तुगत्या योगेऽपि साङ्ख्य-

स्यैवोद्देश्यविघया प्राधान्यं दृश्यते । अत एव योगो नात्मानं साङ्ख्यात्

'पृथक्कर्तु महंतीति । एतज्ज्ञानार्थं पातञ्जलयोगदर्शनस्य तृतीयपादस्य

पश्चविशसूत्रस्य भाष्यादिकमवलोकनीयमस्ति । अतो योगकोशमन्तरंकल:

साङ्ख्यकोशोऽपूर्णं एवेति योगकोशप्रणयनेऽपि समयव्यवधानमविधाय

प्रवृत्तः ।
 

 
यद्यप्यन्यैरपि बहुभिर्योग मर्मज्ञैर्योगसम्बन्धिनो के स्वतन्त्र ग्रन्था अपि

विरचिताः समुपलभ्यन्ते, तथापि व्याकरणन्यायवेदान्तादिशास्त्रसमक-