This page has not been fully proofread.

किञ्चित्रिवेदतम्
 
मान्याः !
 
अस्माकं व्यवहारक्षेत्रे कोशानां कियदुपयोगित्वं विद्यत इति नास्ति
तिरोहितं कस्यापि । यथा सन्विता द्रव्यकोशाः साक्षादेव पणनव्यवहारे
सुखमुपयुज्यन्ते तथैव शब्दकोशा अपि यदेच्छं साक्षादेव व्यवहार उप-
युज्यन्त इति । प्रकारान्तरेणैतदपि वकुं शक्यते यदशिक्षितस्य कृते
व्यवहार एवास्ति भाषाज्ञानाद्युपाय: । शिक्षमाणानां प्रौढानां कुते कोशो
व्याकरणश्वोभे अपि प्रधानभावेनोपयुज्येते यदा च सुशिक्षितानां कोश
एव मुख्योपायो मिन्नभाषाज्ञानादौ । प्रकृते च ये छात्रावस्थायां वर्तमाना
साङ्ख्यशास्त्रं योगशास्त्र वाघीयानाः सन्ति ते निजाध्ययनक्रम एव
साङ्ख्ययोगशास्त्रीय शब्दानामभिप्रायं ग्रन्थतो गुरुतश्च ज्ञातुं प्रभवन्ति ।
किन्तु ये सम्पादितशास्त्रान्तराध्ययनाः अध्यापनादिकार्यान्तरव्यापृतास्ते
एवंविधकोशसाहाय्येन साङ्ख्ययोगशास्त्र सिद्धान्ताननायास भगवन्तुं
शक्ष्यन्तीति ।
 
"
 
विश्वमेदिन्यादिकोशाः प्राचीनाः एकैकशब्दार्थसम्बन्धज्ञानार्थमेव
विरचितास्तदानीम् । तेऽपि च सामान्यव्यवहारविषयीभूतानेव शब्दान्
समाश्रयन्ते न तत्तच्छास्त्रीयपारिभाषिकानपि । तेष्वपि अमरत्रिकाण्डी
तु सर्वेषां गीर्वाणवाणीसमुपासकानामुत्तमर्णा । अतएव "मटाध्यायी
जगन्माता अमरकोशो जगत्पिता" इति रघुलंघुरमरो व्युत्पत्तिज्ञाने माते-
चोपयुज्यते" इति च प्रसिद्धिरस्ति । यथा चैते शब्दार्थकोशास्तथा
जगत्प्रपन्चज्ञानार्थं ज्ञानकोशास्तत्तच्छास्त्रीयविषयज्ञानार्थंच तत्तच्छास्त्र-
कोशाचातीवोपकारकाः सन्ति ।