This page has been fully proofread once and needs a second look.

येन वर्णसमुदायेनानुपूर्वी विशेष विशिष्टेन स्फोटोऽभिव्यज्यते, तस्यैवार्थप्रत्याय-
कत्वमस्तु, किमन्तर्गडना स्फोटेन ? द्वितीये तु अज्ञातस्फोटस्य नास्त्यर्थं-
प्रत्यायनशक्तिरिति व्यर्था स्फोटकल्पनेति । ( द्र० सां० प्र० मा० अ० १
सू० ५७ ) ।
 
स्वकर्म, स्वकर्मन्
स्वाश्रम विहिकर्मानुष्ठानम् ।
 
स्वतः प्रामाण्यम् , स्वतः प्रामाण्य
वेदानां स्वाभाविको या यथाथंज्ञानजननशक्तिः, तस्या
मन्त्रायुर्वेदादावुपलम्भात् समस्तवेदानां स्वत एव प्रामाण्यं न तु वक्तृयथार्थं-
ज्ञानाधीनम् । ( द्र० सां० प्र० मा० अ० ५ सू० ५१ ) ।
अनिरुद्धोऽपि ग्राह-निजशक्तिज्ञानजनकसामग्रीमात्राधीनं प्रामाण्यं न तु
अधिकं गुणमपेक्षते नैयायिकवत् । इदमुत्पत्तिपक्षे । ज्ञप्तिपक्षेऽपि - ओत्सर्गिकी
ज्ञानग्राहकाणां प्रामाण्यवोधशक्तिः । अप्रामाण्यन्तु परतः, तत्र दोषस्यापि
कारणत्वात् । ( द्र० सां० द० अनि० वृ० अ० ५ सू० ५१ )
 
स्वरूपं न शक्तिः, स्वरूपं न शक्ति
यदि स्वरूपं शक्तिस्तदा 'शक्तो मल्ल' इत्युक्तों पुनरुक्तदोषः
स्यात् देवदत्तो देवदत्त इतिवत् । तथा शक्तो मन्त्र इति विशेषणमनर्थकं च
स्यात् । तथा च निजा बासी शक्तिश्चेति निजशक्तिः न तु स्वरूपमेव शक्ति-
रिति सिद्धान्तः । ( द्र० सा० द० अनि० वृ० अ० ५ सू० ३३,
३४, ३६ ) ।
 
स्वालक्षण्यम् , स्वालक्षण्य
स्वं स्वं लक्षणम् = असाधारणीवृत्तिः अध्यवसायाभिमानसङ्कल्प-
रूपा येषां तानि स्वलक्षणानि महदहङ्कारमनांसि तेषां भावः स्वालक्षण्यम् ।
तदेव स्वं स्वं लक्षणमध्यवसायादिरूपं महदहङ्कारमनसां वृत्तिरस्तीति ।
( द्र० सां० त० को० का० २९ ) ।
 
हंसक्षीरवत् , हंसक्षीरवत्
यथा दुग्धजलयोरेकीभावमापन्नयोमंध्येऽसारजलत्यागेन सारभूत-
क्षोरोपादानं हंसस्यैव भवति न तु काकादेः । तथैव विरक्तस्यैव हेयानां
प्रकृत्यादीनां हानम्, उपादेयस्य चात्मन उपादानं संभवति नाविरक्तस्य ।
( द्र० सां० प्र० मा० म० ४ सू० २३ ) इति शिवम् ।