This page has been fully proofread once and needs a second look.

सांख्यकोश
 
येन वर्णसमुदायेनानुपूर्वी विशेष विशिष्टेन स्फोटोऽभिव्यज्यते, तस्यैवार्थप्रत्याय-

कत्वमस्तु, किमन्तर्गडना स्फोटेन ? द्वितीये तु अज्ञातस्फोटस्य नास्त्यर्थं-

प्रत्यायनशक्तिरिति व्यर्था स्फोटकल्पनेति । ( द्र० सां० प्र० मा० अ० १

सू० ५७ ) ।
 

 
स्वकर्म, स्वकर्मन्
स्वाश्रम विहिकर्मानुष्ठानम् ।
 

 
स्वतः प्रामाण्यम् , स्वतः प्रामाण्य
वेदानां स्वाभाविको या यथाथंज्ञानजननशक्तिः, तस्या

मन्त्रायुर्वेदादावुपलम्भात् समस्तवेदानां स्वत एव प्रामाण्यं न तु वक्तृयथार्थं-

ज्ञानाधीनम् । ( द्र० सां० प्र० मा० अ० ५ सू० ५१ ) ।
 

अनिरुद्धोऽपि ग्राह-निजशक्तिज्ञानजनकसामग्रीमात्राधीनं प्रामाण्यं न तु

अधिकं गुणमपेक्षते नैयायिकवत् । इदमुत्पत्तिपक्षे । ज्ञप्तिपक्षेऽपि - ओत्सर्गिकी

ज्ञानग्राहकाणां प्रामाण्यवोधशक्तिः । अप्रामाण्यन्तु परतः, तत्र दोषस्यापि

कारणत्वात् । ( द्र० सां० द० अनि० वृ० अ० ५ सू० ५१ )
 
-
 

 
स्वरूपं न शक्तिः - , स्वरूपं न शक्ति
यदि स्वरूपं शक्तिस्तदा 'शक्तो मल्ल' इत्युक्तों पुनरुक्तदोषः

स्यात् देवदत्तो देवदत्त इतिवत् । तथा शक्तो मन्त्र इति विशेषणमनर्थकं च

स्यात् । तथा च निजा बासी शक्तिश्चेति निजशक्तिः न तु स्वरूपमेव शक्ति-

रिति सिद्धान्तः । ( द्र० सा० द० अनि० वृ० अ० ५ सू० ३३,

३४, ३६ ) ।
 

 
स्वालक्षण्यम् , स्वालक्षण्य
स्वं स्वं लक्षणम् = असाधारणीवृत्तिः
 
अध्यवसायाभिमानसङ्कल्प-
I
 

रूपा येषां तानि स्वलक्षणानि महदहङ्कारमनांसि तेषां भावः स्वालक्षण्यम् ।

तदेव स्वं स्वं लक्षणमध्यवसायादिरूपं महदहङ्कारमनसां वृत्तिरस्तीति ।

( द्र० सां० त० को० का० २९ ) ।

 
हंसक्षीरवत् - , हंसक्षीरवत्
यथा
 
दुग्धजलयोरेकीभावमापन्नयोमंध्येऽसारजलत्यागेन सारभूत-

क्षोरोपादानं हंसस्यैव भवति न तु काकादेः । तथैव विरक्तस्यैव हेयानां

प्रकृत्यादीनां हानम्, उपादेयस्य चात्मन उपादानं संभवति नाविरक्तस्य ।

( द्र० सां० प्र० मा० म० ४ सू० २३ ) इति शिवम् ।