2023-03-21 18:05:42 by Krishnadaschandran
This page has been fully proofread once and needs a second look.
सृष्टिप्रलयौ, सृष्टिप्रलय
साम्यात् = प्रकृतेः सदृशपरिणामात् प्रलयः । तथा वैषम्यात्
प्रकृतेर्मंहदादिभावेन विसदृशपरिणामात् सृष्टि: तथा च सांख्यसूत्रम् - साम्य-
वैषम्याभ्यां कार्यद्वयम् ( अ० ६ सू० ४२ ) ।
सृष्टौ महदादीनां स्वार्थाभावः, सृष्टौ महदादीनां स्वार्थाभाव
सृष्टिहि पुरुषार्था भवति अतो महदादयो न
स्वार्थाय सृष्टिमारभन्ते । प्रकृतेस्तु नित्यत्वात् तस्याः स्वार्थायारम्भो
युज्यते । महदादीनान्तु अनित्यत्वात् कारणलयेन नाशात् सृष्टिमात्रं न तु
कश्चित् स्वार्थ: । (द्र • सां० द० अनि० वृ० अ० २ सू० ११ ) ।
संस्कारैक्यम् , संस्कारैक्य
येन संस्कारेण मानवादिशरीरभोग आरब्धः, स एक एव
संस्कारः तच्छरीरसाव्यस्य समग्रप्रारब्धभोगस्य समापकः । स च भोग-
समाप्तिनाश्यः, न तु प्रतिक्रियम् = प्रतिभोगव्यक्ति संस्कारनानात्वम्, कल्पना-
गौरवप्रसङ्गात् । कुलालचक्रभ्रमणस्थलेऽपि एक एव वेगाख्यः संस्कारो
'भ्रमणसमाप्तिपर्यन्तस्थायी बोध्यो न तु वेगात् संस्कार, संस्काराच
'पुनवेंग इति संस्कारनानात्वमस्तीति । ( द्र० सां० प्र० मा० म० ५
सू० १२७ ) ।
स्थूलशरीरम् , स्थूलशरीर
मातापितृभ्यां समुत्पन्नं षाट्कौशिकम् । तत्र मातृतो लोम-
लोहितमांसानि, पितृतश्च स्नाय्वस्थिमज्जान इति षट्कोशा: । (द्र० सां०
त० को० का० ३९ ) । गौडपादास्तु पृष्ठोदरजङ्घाकट्युरःशिरःप्रभृति-
षट्कोशाः । द्रष्टव्यमुक्तकारिकाया भाष्यम् ।
स्फोटः, स्फोट
प्रत्येकवर्णेभ्योऽतिरिक्तं 'कलश' इत्याकारकमखण्डमेकपदं स्फोट इति
वैयाकरणंर्योगैश्चाभ्युपगम्यते । यथा कम्बुग्रीवाद्यवयवेभ्योऽतिरिक्तो घटा-
द्यवयवी प्रतीयते स च शब्दविशेषः पदाख्योऽर्थस्फुटीकरणात् 'स्फोट'
इत्युच्यते ।
सच स्फोटात्मकः शब्दो न सांख्यैरभ्युपगम्यते । यतो हि स स्फोटः प्रतीय-
मानः सन् अर्थ प्रत्याययति उताप्रतीयमानः सन् ? आद्ये सा स्फोटप्रतीतिनं
श्रवण प्रत्यक्षरूपा, अननुभवात्, किन्तु अभिव्यक्तिरूपंव स्वीकार्या । एवञ्च