This page has been fully proofread once and needs a second look.

सूक्ष्मभूतानि, सूक्ष्मभूत
स्थूलभूतातिरिक्तानि सूक्ष्मभूतान्यपि भवन्तीति वृत्तिकाराः ।
( द्र० सां० द० अनि० वृ० अ० १ सू० ६१ ) । एतान्येव पार्थिवादि-
परमाणवः । तत्र 'आद्यहेतुता तद्द्द्वारा पारम्पर्येणाणुवत् ।' इति सूत्रमपि
प्रमाणम् । ( सां० द० अ० १ सु० ७४ ) । गौडशदाचार्येणापि सांख्य-
कारिकामाप्ये सिद्धान्तोऽयमभ्युपगतः तदुक्तम् - पञ्चभ्यः परमाणुभ्यः
पञ्चमहाभूतान्युत्पद्यन्त इति । ( द्र० सां० का० भा० का० २२ ) ।
विज्ञानभिक्षुस्तु पञ्चतन्मात्राण्येव सूक्ष्मभूतानीत्याह । तदुक्तम् – स्थूल-
शब्दात् तन्मात्राणां सूक्ष्मभूतत्वमभ्युपगतम् इति । ( सां० प्र० मा०प्र० १
सू० ६१ ) ।
 
सूक्ष्मशरीरम् , सूक्ष्मशरीर
अष्टादशमिस्तत्त्वैः सूक्ष्म शरीरमारभ्यते । इदमेव लिङ्गशरीरम् ।
द्रष्टव्यो लिङ्गशरीरशब्द विचारः ।
 
सूदवत् ,सूदवत्
यथा पाके निष्पन्ने पाचकस्य व्यापारी निवर्तते तथैव पुरुषार्थं समाप्तौ
प्रधानस्य सृष्टिनिवर्तत इति ।
 
सृष्टिः, सृष्टि
रागनिमित्ता सृष्टि: वैराग्यनिमित्ता च मुक्तिः ।
 
सृष्टिप्रयोजनम् , सृष्टिप्रयोजन
आत्मा स्वभाव विमुक्तः, तस्याभिमानिकबन्धविमोक्षार्थं
प्रधानस्य जगत्कर्तृत्वम् बन्धविमोक्षश्च हेयस्यैकविशतिप्रकारस्य दुःखस्य
हानम् । एकविंशतिप्रकारं दुःखञ्च - शरीरं, पडिन्द्रियाणि, षड्विषया:,
षड्बुद्धयः, सुखं, दुःखञ्चेति । तत्र शरीरं दुःखायतनत्वाद् दुःखम् ।
इन्द्रियाणि, विषया, बुद्धयश्च दु.खसाधनभावात् । सुखमपि दुःखानुषङ्गात्
दुःखम् । दुःखं तु यातनापीडासन्तापात्मकं मुख्यत एव दुःखमिति ।
दुःखहानञ्चात्यन्तिकी दुःखोत्पत्तिनिवृत्तिः । तस्योपाय आत्मविषयकं तत्त्व
ज्ञानम् । तथा च श्रुतिः - 'आत्मा वा अरे द्रष्टवतरति शोकमात्मवित्'
इत्यादिः । तस्यात्मनो विवेकज्ञानाय प्रकृतेः प्रवृत्तिरिति परार्था प्रधानस्य
सृष्टिप्रवृत्तिः । स्वार्था च प्रधानस्य जगत्सृष्टिः । तथाहि, यं पुरुषं प्रत्यात्मानं
विवेकेन दर्शितवती तं प्रत्युदास्ते प्रकृतिरिति । ( द्र० सां० द० अनि०
वृ० अ० २ सू० १) ।