This page has been fully proofread once and needs a second look.

अदृष्ठस्वलक्षणसामान्यविषयमनुमानं सामान्यतोदृष्टमनुमानमिति वाचस्पति-
मिश्रा: । ( सां० त० कौ० का० ५ ) ।
 
साम्यावस्था , साम्यावस्था
गुणानामकार्यावस्था । इयमेव स्वरूपपरिणाम इत्युच्यते ।
 
सांसिद्धिकम् , सांसिद्धिक
स्वाभाविकम् ।
 
सिद्धिः, सिद्धि
अष्टप्रकारा भवति । तथा चोक्तं सांख्यकारिकायाम् ऊहः शब्दोऽ-
ध्ययनं दुःखविघातास्त्रयः सुहृत्प्राप्तिः । दानं च सिद्धयोऽष्टौ सिद्धेः पूर्वोऽङ्क-
शस्त्रिविधः ॥ इति । ( सां० का० ५१ ) अत्र विहन्यमानम्य दुःखस्य
त्रित्वात् तद्विघातास्त्रय इतीमाः मुख्यास्तिस्रः सिद्धयः । इतरास्तु तदुपाय-
तया गौण्यः पञ्च सिद्धयः ।
तत्रोहस्तर्कः--आगमाविरोधिन्यायेन श्रागमार्थपरीक्षणम् । इदमेव मनन-
मित्याचक्षते आगमिनः । इयं सिद्धिः तारतारमित्युच्यते । शब्द: अर्थात्
शब्दजनितमथंज्ञानं द्वितीया सिद्धिः सुतारमित्युच्यते ।
एवं विधिवद् गुरुमुखादध्यात्मविद्यानामक्षरस्वरूप ग्रहणमध्ययनसंज्ञिका सिद्धिः
तारमित्युच्यते ।
कन्यायेन स्वयं परीक्षितमप्यर्थं न श्रद्धत्ते यावद् गुरुशिष्यसहपाठिमिः सह न
संवाद्यते । अतः सुहृदां गुरुशिष्य सहपाठिनां संवादकानां प्राप्तिः सुहृत्प्राप्तिः,
-सा सिद्धिश्चतुर्थी रम्यकमित्युच्यते । दानं च शुद्धिविवेकज्ञानस्य । शुद्धिश्च
·सवासन संशयविपर्यासानां परिहारेण विवेकसाक्षात्कारस्य स्वच्छप्रवाहेऽ-
'वस्थापनम् । अत्र विवेकज्ञानरूपकार्येण तत्कारणीभूतो दोर्घकालादरनैरन्तयं-
सेविताभ्यासपरिपाकोऽपि दानपदेन संगृहीतो भवति । सेयं पञ्चमी सिद्धिः
सदामुदितमुच्यते ।
पूर्वोक्ताः तिस्रो मुख्याः सिद्धयः प्रमोदमुदितमोदमानसंज्ञादिभिः परिभाष्यन्ते ।
इत्यष्टौ सिद्धयः । ( द्र० सां० त० कौ० का० ५१ ) । एषां पारिभाषिक
शब्दानां व्याख्यानान्तरराण्यपि विलोकनीयानि सांख्यप्रवचनभाष्ये युक्तिदीपि-
कादौ चेति तत एव विस्तरोऽनुसन्धेयः ।