This page has been fully proofread once and needs a second look.

सांख्यकोश
 
गृहारम्भो हि दुःखाय न सुखाय कथञ्चन ।

सर्पः परकृतं वेश्म प्रविश्य सुखमेधते ॥ इति ।

( द्र० सां० प्र० भा० अ० ४ सू० १२ ) ।

 
सर्वेश्वर्यम् , सर्वेश्वर्य
अयं सर्वैश्वयंवाद एकेश्वरवादप्रतिरोधी सांख्याभिमतः । पुरुषाणां

चितामानन्त्यात् स्वतोनित्यमुक्तत्वाच्च, अखिलभोक्तृसंयोगादेव प्रधानेन

महदादिसर्जनाच्चेति । ( द्र० सां० प्र० भा० अ०५ सू० ५ ) ।

 
साक्षी, साक्षिन्
प्रमाता, साक्षाद्रष्टा । यस्मै प्रदर्श्यते विषयः स साक्षी । प्रकृतिरपि

स्वविषयं पुरुषाय दर्शयतीति पुरुषः साक्षी । ( द्र० सां० त० को० का०

१९ ) । सांख्यसूत्रमपि यथा – 'साक्षात् सम्बन्धात् साक्षित्वमिति ( अ० १

सू० १६१ ) । अतः साक्षात्सम्बन्धाद्धेतोः पुरुषो' बुद्धेरेव साक्षी, अन्येषां

तु विषयाणां द्रष्टृमात्रमस्तीति ।
 
-
 

 
सादृश्यम् - सादृश्य
सादृश्यं न तत्त्वान्तरम्, न वा वस्तुनः स्वाभाविकशक्तिविशेषः,,

किन्तु भूयोऽवयवसामान्ययोगो हि सादृश्यम् । ( द्र० सां० द० अनि० वृ०

अ० ५ ० ९४-९५ ) ।
 

संज्ञासंज्ञिसम्बन्धज्ञानहेतुः सादृश्यमिति केचिद् वदन्ति । तदपि व्यभिचारा-

दुपेक्षणीयमेव । सादृश्याभावेऽपि उपदेशादेः संज्ञासंज्ञिसम्बन्धस्य निश्चयात् :

( द्रष्टव्यं तत्रैव सु० ९६ ) ।
 
सामान्यम् –

 
सामान्यम् , सामान्य
अस्ति तावदेकाकारवुद्धिहेतुः सामान्यम् किन्तु अनित्यमिति

सांख्यमतम् ( द्र० सां० द० अनि० वृ० म० ५ सू० ९१-९२) । तच्च

सामान्यं नान्यापोहरूपम्, घटोऽयमिति भावत्वेन प्रतीतेः । अन्यथा 'अयं

घट' इति स्थाने 'नायमघट' इत्येव ऽ तीयेत । किश्च 'प्रघटव्यावृत्ति

रित्यत्र अघटत्वं घटसामान्य मिन्नत्वमिति सामान्याभ्युपगम एवापतितोऽपोह-

वादिनां शिरसि । ( द्र० सां० प्र० मा० अ० ५ सू० ९३ ) ।
 

 
सामान्यतोदृष्टम्–पूर्वंवच्छेषवदुमयभिन्नमनुमानं , सामान्यतोदृष्ट
पूर्वंवच्छेषवदुमयभिन्नमनुमानं सामान्यतोदृष्ट
म् । यथा रूषा-

दिज्ञाने क्रियात्वेन हेतुना करणवत्त्वानुमानम् । ( द्र० सां० प्र० मा० अ

१ स० १०३ ) ।