This page has not been fully proofread.

सांख्य कोशः
 
षट्पदवत्-पुष्पेभ्यो यथा षट्पदः सारमेवादत्ते तथैव शास्त्रगुरुभ्यः सारमेव
गृह्णीयात् । (सां० द० अ० ४ सू० १३ ) ।
 
३६
 
सत्कार्यवादः – कारणव्यापारादूर्ध्वमिव कारणव्यापारात् पूर्वमपि कार्यं सदेव
भवति न तु वैशेषिकादिवत् असत् इति सांख्यसिद्धान्तः । यथा तिलेष्व-
वस्थितस्यैव तैलस्याविर्भावो भवति, तद्वत् ।
 
सत्ख्यातिः–'अत्यन्तसतः ख्यातिः सतुख्यातिः इत्यपि न सांख्याभिमतम् । यदि
गुणादयोऽत्यन्तसन्तो मासेरन् तदा विनाशकाले तेषां बाधो न दृश्येत ।
सदसत्ख्यातिः—सदसत्ङ्ख्यातिरेव सर्वेषां गुणादीनामिति सांख्य सिद्धान्तः ।
कुतः ? बाघावाघभावात् । तत्र स्वरूपेणाबाध: सर्वस्तूनां नित्यत्वात् ।
संसगंतस्तु वाघः सर्ववस्तूनां चैतन्येऽस्ति । यथा लौहित्यं स्वरूपतः कवच-
दस्ति किन्तु संसर्गतस्तु तत् श्वेतपटे नास्ति ।
 
>
 
न च सत्त्वा सत्त्वयोविरोध इति शङ्कनीयम्, प्रकारभेदेनाविरोधात् । यथा
हि लौहित्यं विम्बरूपेण सत् स्फटिकगतप्रतिबिम्ब रूपेण च असत् इति दृष्टम् ।
यथा वा रजतं वणिग्वीथिस्थरूपेण सत् शुक्त्यध्यस्तरूपेण चासत् । तथैव सर्वं
जगत् स्वरूपतः सत्, चैतन्यादावघ्यस्तस्वरूपेण चासदिति । एवमवस्था-
भेदेनापि सदसत्त्वमविरुद्धम् । यथाहि वृक्षादि: प्ररूढाद्यवस्थाभिः सत्नपि
अङ्कराद्यवस्थाभिरसन् भवति, तथैव प्रकृत्यादिकं सदसदात्मकमिति ।
तदुक्तम्-
अव्यक्तं कारणं यत् तन्नित्यं सदसदात्मकम् ।
 
प्रधानं प्रकृतिश्चेति यदाहुस्तत्त्वचिन्तकाः ॥ इति ।
( द्र० सां० प्र० मा० म० ५ सू० ५६ ) ।
 
सम्बन्धः - व्याप्तिः । तथा च सांख्यसूत्रमीश्वरप्रकरणे – सम्बन्धा भावन्नानुमानम्
ब० ५ सू० ११ ) ।
 
सर्पवत्-
1
 
- यथा सर्पः स्वयं गृहं न निर्माति, परगृहे एव सुखी शेते, तथैव स्वभो-
गार्थमारम्भो नैवकर्तव्यो योगप्रतिबन्धकत्वात् । तदुक्तम्-