This page has been fully proofread once and needs a second look.

सांख्यकाशः
 
शब्दोच्चारणे मुखदाहादिप्रसङ्गश्च स्यादिति । ( द्र० सां० द० अनि० वृ०

अ० ५ सू० ३७ )।
 
:
 

 
शब्दार्थसम्बन्धानित्यत्वम् , शब्दार्थसम्बन्धानित्यत्व
शब्दार्थयोः सम्बन्धोऽनित्य इति सांख्यमतम् ।

न तु मीमांसकवत् नित्यः शब्दार्थसम्बन्ध इति । तथा च सांख्यसूत्रम् – 'न

सम्बन्धनित्यतोभयानित्यत्वात् ।' ( अ० ५ सू० ९७ ) । उभयोः शब्दार्थ-

योरनित्यत्वात् तत्सम्बन्धस्याप्यनित्यत्वमिति भावः ।

 
शरीरभेदाः, शरीरभेद
उष्मजम्-- अण्डजं-जरायुजम्--उद्भिज्जं-- संकल्पजं-- सांसिद्धिकञ्चेति

शरीरस्य षड्भेदाः। तत्रोष्मजा दन्दशूकादयः, अण्डजाः पक्षिसर्पादयः,

जरायुजा मनुष्यादयः, उद्भिज्जा वृक्षादयः, संकल्पजा: सनकादय: साँसि-

द्धिका मन्त्रतपआदिसिद्धिजा: रक्तबोजशरीरोत्पन्नदेहाः । तथा च
चेति न
 

सांख्यसूत्रम्—'उष्मजाण्डजजरायुजोद्भिज्जसांकल्पिकसांसिद्धिकं
चेति न
नियमः ।' ( अ० ५ सु० १११ ) । द्रष्टव्यञ्चात्रत्यं माण्यम् ।

 
शाब्दवोबोधः, शाब्दबोध
शब्दप्रमाणजन्या प्रमितिः = पौरुपेयो बोधः शाब्दबोधः । ।

 
शुकवत् -
[-
, शुकवत्
यथा शुकपक्षी व्याधस्य गुणे रज्जुभिर्वद्धो भवति, स्वीयैरेव वा

मनोज्ञरूपमधुरशब्दरूपैर्गुणनिमित्तंबंन्धनं प्राप्नोति, तथैव विवेकिजनोऽपि

रागिजनसङ्गं प्राप्य तद्गुणं रागद्वेषादिभिर्वद्धो भवति । अतो रागिजन-

सङ्गो नं कर्तव्यः । ( द्र० सां० प्र० मा० ऋ० ४ सू० २६ ) ।
 

 
शेषवत् , शेषवत्
व्यतिरेकानुमानं शेषवत् । शेषोऽपूर्वोऽर्थोऽस्य विषयत्वेनास्तीति शेष-

वत्, अप्रसिद्धसाव्यकमिति यावत् । यथा, पृथिवीत्वेन इतरभेदानुमानम् ।

पृथिवीतरभेदो हि प्रागप्रसिद्धः । ( द्र० सां० प्र० भा० अ० १

सू० १०३ ) ।
 

 
श्येनवत् -- , श्येनवत्
यथा हि सामिप: श्येन: केनाप्यपहत्य आमिषाद् वियोज्य दुःखी

क्रियते, स्वयं चेत् त्यजति तदा दुःखाद् विमुच्यते । तथैव द्रव्याणां स्वयं

त्यागेन लोकः सुखी भवति, परद्वारा वियोगेन च दुःखी भवति । अतः

परिग्रहो न कर्तव्यः । ( द्र० सां० प्र० म० अ० ४ सू० ५ ) ।