2023-03-12 05:50:41 by ambuda-bot
This page has not been fully proofread.
सांख्यकाशः
शब्दोच्चारणे मुखदाहादिप्रसङ्गश्च स्यादिति । ( द्र० सां० द० अनि० वृ०
अ० ५ सू० ३७ )।
:
शब्दार्थसम्बन्धानित्यत्वम् – शब्दार्थयोः सम्बन्धोऽनित्य इति सांख्यमतम् ।
न तु मीमांसकवत् नित्यः शब्दार्थसम्बन्ध इति । तथा च सांख्यसूत्रम् – 'न
सम्बन्धनित्यतोभयानित्यत्वात् ।' ( अ० ५ सू० ९७ ) । उभयोः शब्दार्थ-
योरनित्यत्वात् तत्सम्बन्धस्याप्यनित्यत्वमिति भावः ।
शरीरभेदाः – उष्मजम्-- अण्डजं-जरायुजम्--उद्भिज्जं-- संकल्पजं-- सांसिद्धिकञ्चेति
शरीरस्य षड्भेदाः। तत्रोष्मजा दन्दशूकादयः, अण्डजाः पक्षिसर्पादयः,
जरायुजा मनुष्यादयः, उद्भिज्जा वृक्षादयः, संकल्पजा: सनकादय: साँसि-
द्धिका मन्त्रतपआदिसिद्धिजा: रक्तबोजशरीरोत्पन्नदेहाः । तथा च
चेति न
सांख्यसूत्रम्—'उष्मजाण्डजजरायुजोद्भिज्जसांकल्पिकसांसिद्धिकं
नियमः ।' ( अ० ५ सु० १११ ) । द्रष्टव्यञ्चात्रत्यं माण्यम् ।
शाब्दवोधः– शब्दप्रमाणजन्या प्रमितिः = पौरुपेयो बोधः शाब्दबोधः । ।
शुकवत् -
[- यथा शुकपक्षी व्याधस्य गुणे रज्जुभिर्वद्धो भवति, स्वीयैरेव वा
मनोज्ञरूपमधुरशब्दरूपैर्गुणनिमित्तंबंन्धनं प्राप्नोति, तथैव विवेकिजनोऽपि
रागिजनसङ्गं प्राप्य तद्गुणं रागद्वेषादिभिर्वद्धो भवति । अतो रागिजन-
सङ्गो नं कर्तव्यः । ( द्र० सां० प्र० मा० ऋ० ४ सू० २६ ) ।
शेषवत् – व्यतिरेकानुमानं शेषवत् । शेषोऽपूर्वोऽर्थोऽस्य विषयत्वेनास्तीति शेष-
वत्, अप्रसिद्धसाव्यकमिति यावत् । यथा, पृथिवीत्वेन इतरभेदानुमानम् ।
पृथिवीतरभेदो हि प्रागप्रसिद्धः । ( द्र० सां० प्र० भा० अ० १
सू० १०३ ) ।
श्येनवत् -- यथा हि सामिप: श्येन: केनाप्यपहत्य आमिषाद् वियोज्य दुःखी
क्रियते, स्वयं चेत् त्यजति तदा दुःखाद् विमुच्यते । तथैव द्रव्याणां स्वयं
त्यागेन लोकः सुखी भवति, परद्वारा वियोगेन च दुःखी भवति । अतः
परिग्रहो न कर्तव्यः । ( द्र० सां० प्र० म० अ० ४ सू० ५ ) ।