This page has been fully proofread once and needs a second look.

षष्टिसंख्याकत्वमेव निदानम् । पष्टिविषयाश्च – पञ्च विपर्ययाः, नव ष्टयः,
अष्टौ सिद्धयः, अष्टाविंशतिरशक्तयः, दश मौलिाकार्थाश्चेति ।
 
शक्तिः, शक्ति
'वाच्यवाचकभावः सम्बन्धः शब्दार्थयो.' इति सूत्रानुसारं वाच्यतारूपा
शक्तिरर्थे, वाचकतारूपा शक्तिः शब्देऽस्तीति वाच्यवाचकभाव एव शब्दार्थयोः
शक्तिः । तस्याश्च शक्तेस्त्रिभिः कारणैर्ग्रहणं भवति । आप्तोपदेशेन, वृद्ध-
व्यवहारेण, प्रसिद्धपदसामानाधिकरण्येन चेति । ( द्र० सां० प्र० भा० अ०
५ सू० ३७-३८ ) । आप्तोपदेशो यथा— कोकिल: पिकशब्दवाच्य इति
आप्तवचनात् पिकादिशब्दानां कोकिले शक्तिग्रहः । वृद्धव्यवहारो यथा-
प्रयोजकवृद्धेन 'घटमानय' इत्युक्ते तच्छ्रुत्वा प्रयोज्यवृद्धेन घट आनीतस्त-
दवधार्य पार्श्वस्थो वालो घटानयनरूपं कार्य घटमानयेति शब्दप्रयोज्य-
मित्यवधारयति । ततथ 'घटं नय, गामानय' इत्यादि वाक्यादवापो-
द्वापाभ्यां घटादिपदानां घटग्दो शक्ति गृह्णाति ।
प्रसिद्धपदसामानाधिकरण्यं यथा- 'इह सहकारतरौ मधुरं पिका रौति'
इत्यादी पिकशब्दस्य कोकिले शक्तिग्रह इति । ( द्र० न्या० सि० मु०
शव्दखण्डम् ) ।
 
शब्दः, शब्द
आप्तोपदेशः शब्दः । आप्तिरत्र योग्यता । तथा च योग्यः शब्दस्तज्जयं
ज्ञानं ( वृत्ति: ) शब्दप्रमाणम् । ( सां० प्र० भ० अ० १ सू० १०१ ) ।
आप्तश्रुतिराप्तवचन मिति सांख्यकारिका । तत्राप्ता प्राप्ता युक्तेति यावत् ।
आप्ता चासौ श्रुतिश्चेति आप्तश्रुतिः । श्रुतिर्वाक्यजन्यं वाक्यार्थज्ञानमिति
वाचस्पतिमिश्राः ।
 
शब्दानित्यत्वम् , शब्दानित्यत्व
शब्दो नित्य इति मीमांसकमतम् । तत् सांख्या नानुमन्यन्ते ।
उत्पन्नो गकारो नष्टो गकार इत्यादिकार्यताप्रतीतेः । स एवायं गकार इति
प्रत्यभिज्ञा सैवेयं दीपकलिकेतिवत् जातिविषयिणी । अन्यथा घटादेरपि
प्रत्यभिज्ञया नित्यतापत्तेः । ( द्र० सां० प्र० भा० अ० २ सू० ५८ )।
 
शब्दार्थयोः सम्बन्धः, शब्दार्थयोः सम्बन्ध
शब्दार्थयोर्वाच्यवाचकभाव एव सम्बन्धो न पु तादात्म्यं,
तथा सति घटोऽपि श्रोत्रग्राह्य: स्यात् शब्दोऽपि चाक्षुषः स्यात् अग्न्यादि-