This page has been fully proofread once and needs a second look.

सांख्यकोशः
 
सूर्यादिपर्यंन्तं सर्पणादिक्रिया नोपपद्येत । एवं बुद्धिवृत्तिरपि प्रदीपशिखावद्

द्रव्यात्मक परिणाम एव बुद्धेः । सा च स्वच्छतयाऽयकारतोद्ग्राहिणी

निर्मलवस्त्रवत् । ( द्र० सां० प्र० मा० अ० ५ सू० १०७ ) ।
 
३३
 

 
वृत्तिस्तत्त्वान्तरम् , वृत्तिस्तत्त्वान्तर
कार्यानुमेया वृत्तिस्तत्त्वान्तरमाहङ्कारिकम् । यतो हि

सांख्येऽनियतः पदार्थः । ( द्र० सां० द० अनि० वृ० अ० ५ सू० १०७) ।

विज्ञान भिक्षुस्तु अनियतपदार्थवादित्वं सांख्यस्य नाङ्गोकुरुते । अतो बुद्धेरि-

न्द्रियादेश्चैकदेशभूतैव वृत्तिरिति तन्मतम् ।
 

 
वैकृतः, वैकृत
सात्विकः ( अहङ्कारः ) ।
 

 
वैराग्यम् , वैराग्य
विषयं प्रति वैतृष्ण्यम् वैराग्यम् । तच्चतुर्विधम् – यतमानसंज्ञा-

व्यतिरेकसंज्ञा - एकेन्द्रिय संज्ञा-वशीकरसंज्ञा चेति । प्रपञ्चितं चैतद्योगभाष्या-

दाविति तत एव विशेषतः प्रतिपत्तव्यम् ।
 
6
 

 
व्याप्तिः - , व्याप्ति
नियतधर्मं साहित्यम् उमयोरेकतरस्य वा व्याप्ति: । साहित्यं सहचारः ।

तथा चोभयोः साध्यसाधनयोरेकस्य साधनमात्रस्य वा नियतः = अव्यमि-

चरितो यः सहचारः स व्याप्तिरित्यर्थः । उभयोरिति समव्याप्तिपक्षे प्रोक्तं,

यथाऽनित्यत्वकृतकत्वयोः । एकतरस्येति विषमव्याप्तिपक्षे प्रोक्तम्, यथा

वह्निधूमयोरिति । अयं सिद्धान्तपक्ष इति विज्ञानभिक्षुः । ( द्र० सां० प्र०

मा० अ० ५ सू० २९ ) ।
 

केचिदाचार्या':—निजशक्त्युद्भवं स्वशक्तिजन्यं शक्तिविशेषरूपं तत्त्वान्तरं

व्याप्तिरित्याहुः । बुद्ध्यादिषु प्रकृत्यादिव्याप्यताव्यवहारात् आधारताशक्ति-

र्व्यापकता, आधेयताशक्तिश्च व्याप्यत्वमिति पञ्चशिखाचार्यमतम् । ( द्र०

सां० प्र० मा० अ० ५ सू० ३१ ३२ ) ।
 

 
षष्टितन्त्रम् , षष्टितन्त्र
षष्टिपदार्थबोधकं शास्त्रं षष्टितन्त्रम् । तच्च किमपि ग्रन्थान्तरं

कपिलकृतिरिदानों लुप्तमिति बहवः । वर्तमानसूत्रषडध्यायी एव षष्टितन्त्र-

मित्युदयवीरशास्त्री । षष्टितन्त्रनामकरणे च तद्गतविचार्यमाणविषयाणां

१. वृत्तिकारस्येदमेव मतमभिप्रेतम् ।