This page has been fully proofread once and needs a second look.

वामदेवत् , वामदेवत्
यथा वामदेवस्यैहिकसाधनाभावेऽपि जन्मान्तरीयसाधनेभ्यो गर्भं एव
ज्ञानोदयस्तथा अन्यस्यापि ऐहिकसाधनादेव ज्ञानोदयो भवतीति कालनियमो
नास्ति । ( द्र० सां० प्र० मा० अ० ४ सू० २० ) ।
 
विपर्ययः, विपर्यय—अज्ञानं, विवेकाग्रहो बन्धहेतुभूतः । स पञ्चविधः, अविद्याऽस्मिता-
रागद्वेषामिनिवेशभेदात् ।
 
विरक्तः, विरक्त
विवेकख्यात्या समुत्पन्ननवैराग्यः ।
 
विरोचनवत्-, विरोचनवत्
यथा प्रजापतेरुपदेशश्रवणेऽपि इन्द्रविरोचनयोर्मध्ये विरोचनो
विचाराभावेन भ्रांन्तो जातः, तथैव विचारं ( मननं ) विना उपदेशवाक्य-
श्रवणेऽपि नियमतस्तत्त्वज्ञानं नैव जायते । ( द्र० सां० प्र० मा० ४
सू० १७ ) ।
 
विशेषाः, विशेष- शान्तघोरमूढस्वरूपाणि क्षित्यादीनि पञ्च स्थूलभूतानि सूक्ष्मशरीराणि,
मातापितृजानि स्थूलशरीराणि चेति त्रिधा विशेषा भवन्ति । द्रष्टव्यम्-
तेभ्यो भूतानि पञ्च पञ्चभ्यः । एते स्मृता विशेषा शान्ता घोराश्च
मूढाश्च ॥ सूक्ष्मा मातापितृजा सह प्रभूतैस्त्रिधा त्रिशेषाः स्युः । सूक्ष्मास्तेषां
नियता मातापितृजा निवर्तन्ते ॥' इति । ( सां० का० ३८-३९ ) ।
 
वृक्षादीनां शरीरम् , वृक्षादीनां शरीर
शरीरत्वं हि मोक्तृभोगायतनत्वमिति लक्षणस्य वृक्षादावपि
सत्त्वेन शरीरत्वं वृक्षादिष्वपीति सिद्धान्तः । न हि चाक्षुषादिज्ञानं यत्रास्ति
तदेव शरीरमिति नियमोऽस्ति । अतोऽन्तःसंज्ञानां वृक्षादीनामपि शरीरत्वं
मन्तव्यम् । तथा च श्रुतिः - 'अथ यदेकां शाखां जीवो जहाति अथ सा
शुष्यतीत्यादिः । ( द्र० सां० प्र० मा० अ० ५ सू० १२१ )।
 
वृत्तयः, वृत्ति – क्लिष्टा अक्लिष्टाश्च पञ्चतय्यो वृत्तयः प्रमाण-विपर्यय-विकल्प-निद्रा-
स्मृतिरूपाः ।
 
वृत्तिः, वृत्ति
वृत्तिनं अग्नेविस्फुलिङ्गवद् भागरूपा (अंशरूपा), न वा रूपादिवद् गुण-
रूपा, किन्तु भागगुणाभ्यां भिन्ना तदेकदेशभूतेति सांख्यमतम् । वृत्तेर्मागरूपत्वे
गोलकस्थस्य चक्षुषः सूर्यादिना सह सम्बन्धो न घटेत । गुणत्वे तु तस्यां