This page has been fully proofread once and needs a second look.

र्भवितुमर्हति किन्तु पारम्पर्येण । अर्थात् ब्रह्मादिलोकप्राप्तिक्रमेणैव सत्त्व-
शुद्धिद्वारा वा भवतीति । ( द्र० सां० प्र० भा० अ० ४ ० २१ ) ।
 
योगसिद्धीनां वास्तविकत्वम् , योगसिद्धीनां वास्तविकत्व
यथौषधादिसिद्धयो यथार्थाः तथा योगसिद्ध्योऽपि
यथार्था एव सन्ति ।
 
रागः, राग
सुखानुशयी । सुखमनुशेते, इति व्युत्पत्तेः सुखात् पश्चात् प्रवर्तमान इति
यावत् ।
 
राजपुत्रवत् , राजपुत्रवत्
यथा कश्चिद्राजपुत्रो गण्डर्क्षजन्मना पुरान्निःसारितः शबरेण च
केनचित् पोपितस्सन् 'अहं शबर' इत्यभिमन्यमान आस्ते । तं ज्ञात्वा कश्चि-
दमात्यः प्रबोधयति – न त्वं शवरोऽसि किन्तु राजपुत्रोऽसीति । एवं
प्रबोधितः स झटित्येव चाण्डालाभिमानं त्यक्त्वा तात्विकं राजभावमनुभवति
राजाऽहमस्मीति । एवमेव त्वमिन्द्रियाद्यतिरिक्तः सुखदुःखादिलेपरहितो
नित्यशुद्धबुद्धमुक्तस्वभावोऽसीति कस्यचित् कारुणिकस्योपदेशात् पुरुषोऽपि
प्रकृत्यभिमानं त्यक्त्वा स्वरूपावस्थिति प्राप्नोति । ( द्र० सां० प्र० भा० अ०
४ सू० १ ) ।
 
लयः, लय – सूक्ष्मीभावेन अवस्थानम् न तु नाशः । ( द्र० सां० प्र० भा अ० १
सू० ६१ ) ।
 
लिङ्गम् , लिङ्ग
लिङ्गशरीरम् सूक्ष्मदारीरापरपर्यायम् तच्च एकादशेद्रियाणि,
पञ्चतन्मात्राणि, बुद्धिरहङ्कारश्चेत्यष्टादशतत्त्वेभ्यः समुत्पन्नम् ।
विज्ञानभिक्षुस्तु – अहङ्कारं बुद्धावन्तर्भाव्य सप्तदशतत्त्वेभ्य एव लिङ्ग-
शरीरमुत्पद्यतइत्याह । तत्र प्रमाणञ्च – 'वासनाभूतसूक्ष्मञ्च कर्मविद्ये तथैव
च । दशेन्द्रियं मनो बुद्धिरेतल्लिङ्ग विदुर्बुधाः' इति वाशिष्ठवाक्यम् । (द्र०
सां० प्र० मा० अ० ३ सू० १२ ) । तच्चाणुपरिमाणं भवति ।
 
लोकवत् , लोकवत्
यथा लोके भैषज्यादौ विहितपथ्यादोनां लङ्घनेन तत्तसिद्धिर्नभवति,
तथैव योगिनां वास्त्रेषु विहितानां नियमानामुल्लङ्घने ज्ञाननिष्पत्तिरूप प्रयोजनं
न सिध्यति । ( सां० प्र० मा० अ० ४ सू० १५ ) ।