This page has not been fully proofread.

३०
 
सांख्यकोशः
 
प्रकृतिमहतोरन्तराले
इति कस्यचिन्मतम् ।
 
मायिकत्वम्—असत्यत्वम्, अस्थिरत्वं कार्यत्वं वा ।
 
मुक्तिर्नानन्दाभिक्तिरूपा—आत्मनि
 
ग्रानन्दरूपोऽभिव्यक्तिरूपश्च धर्मो
नास्ति । स्वरूपञ्च तस्यात्मनो नित्यमेवेति नानन्दाभिव्यक्तिर्मोक्ष इति
सांख्यमतम् । अत एव नैयायिकादिवदशेषविशेषगुणोच्छेदोऽपि न मुक्तिः,
'आत्मनो निर्धमंकत्वात् न च तर्हि दुखाभावस्यापि धर्मव सांख्यदुःख-
"निवृत्तिरपि कथं मोक्ष उच्येतेति शङ्कनीयम्, तदानीं सदपि दुःखं केवल-
·मात्मनो भोग्यं न भवतीत्येतावन्मात्रतात्पर्यसत्त्वात् ।
 
मूलप्रकृतेरुत्पन्ना विषमावस्थापन्नास्त्रयो गुणा जायन्त
 
एवं ब्रह्मलोकप्राप्सिरपि न मोक्षः, आत्मनो निष्क्रियत्वात् ।
'एवमेव सर्वोच्छेदः शून्यत्वं वापि न मोक्षः, अपुरुषार्थत्वात् ।
 
एवमंशभूतस्य जीवस्यांशिनि परमात्मनि लयोऽपि न मोक्षः, संयोगानां
वियोगान्ततया मुक्तेरनित्यत्वप्रसङ्गात् स्वलयस्यापुरुषार्थत्वाच्च । ( द्र०
सां० प्र० मा० अ० ५ सू० ७४८३ ) ।
 
मुनिवत् — यथा सौभ रेर्मुनेर्न भोगाद् रागशान्तिरभूत्, एवमन्येषामपि भोगाद्
रागशान्तिनं भवितुमर्हति । तदुक्तम् सौभरिणव-
आमृत्युत्तो नैव मनोरथानामन्तोऽस्ति विज्ञातमिदं मयाद्य मनोरथासक्तिपरस्य
चित्तं न जायते वै परमार्थसङ्गि ॥ इति । ( द्र० सां० प्र० मा० अ० ४
सू० २७ ) ।
 
मूलम् -उपादानम्, मूलप्रकृतिः तथा च सांख्यसूत्रम् – 'मूले मुलामावादमूलं
मूलम्' अ० १ सू० ३२ ।
 
यज्ञोपासकवत् – यथा यज्ञोपासकानां याज्ञिकानां साक्षात् ज्ञाननिष्पत्तिर्नास्ति,
तथैव ब्रह्मविष्णुहरादीनामध्यस्तरूपैरूपासनादपि न साक्षात्ज्ञाननिष्पत्ति-