This page has been fully proofread once and needs a second look.

निष्पविश्चेति विभागो विवेकस्य । ( द्र० सां० प्र० मा० अ० ३
सु० ७७ ) ।
 
मध्यमपरिमाणं मनः, मध्यमपरिमाणं मनस्
मनो न विभु, करणत्वात्, वास्यादिवत् इत्यनुमानेन
मनसो विभुत्वं निषिद्धं भवति । लोकान्तरगमनश्रुतिरपि मनसो विभुत्वे
बाधिका । यदि मनो व्यापकं स्यात्तदा लोकान्तरगमनं नोपपद्येत, विमुत्वे-
नैव लोकान्तरेऽपि सत्त्वात् । नाप्यणु मनः, अनेकेन्द्रियेषु एकदा तस्य
योगात् । देहव्यापिज्ञानादिकन्तु मध्यमपरिणामेनैवोपपद्यते । इदञ्च
कार्यावस्थमनोऽभिप्रायेणोक्तम् । कारणावस्यञ्वान्तःकरणमण्वेव । ( द्र० सां०
प्र० मा० अ० ५ सू० ६९, ७०, ७१ ) ।
 
मध्यस्थः, मध्यस्थ
सुखदुःखाभ्यां रहित उदासीन: ( पुरुष: ) ।
 
मनः, मनस्
तृतीयमन्तःकरणं सङ्कल्पधर्मकम् । उक्तं हि—सङ्कल्पेन रूपेण मनो
लक्ष्यते । आलोचितमिन्द्रियेण वस्त्विदमिति संमुग्धम् 'इदमेवं' 'नवम्'
इति सम्यकुकल्पयति विशेषणविशेष्यभावेन विवेचयतीति । ( सां० त० को०
का० २७ ) ।
 
मन्त्रार्थवादयोः प्रामाण्यम् , मन्त्रार्थवादयोः प्रामाण्य
कार्यान्विते एव शक्तिरिति नास्ति नियमः, उम-
यथा दर्शनात् । तस्माद् विधिवाक्यानां कार्यार्थप्रतिपादकतया प्रामाण्यम् ।
मन्त्रार्थवादयोस्तु सिद्धार्थप्रतिपादकयोरपि अस्ति प्रामाण्यम् । तत्र मन्त्राणां
विहितस्मारकत्वेन, अर्थवादानां विधिशक्तेरुत्तम्भकत्वेन परम्परया प्रवर्तक-
त्वात् प्रामाण्यमिति । ( द्र० सां० सु० अनि० वृ० अ० ५ सू० ३९ ) ।
 
मलिनदर्पणवत् , मलिनदर्पणवत्
यथा मलैः प्रतिबन्धात् मलिनदर्पणेऽर्थो न प्रतिबिम्बति
तथैव मलिनचेतसि उपदेशात् आपातज्ञानपि न जायते, विषयान्तरसञ्चारा-
दिना प्रतिबन्धात् ( द्र० सां० प्र० मा० अ० ४ सू० ९९ ) ।
 
महान् , महत्
बुद्धितत्त्वम् । महान् बुद्धिरासुरीभति: ख्यातिर्ज्ञानमिति प्रज्ञापर्याय-
रुत्पद्यते इति गौडपादमाण्यम् । महान् बुद्धिमंतिर्ब्रह्मापूति: ख्यातिरीश्वरो
विखरइति पर्यायाः । स तु देशमहत्त्वात् कालमहत्त्वाच्च महान् । सर्वोत्पा-
द्येभ्यो महापरिमाणयुक्तत्वात् महानिति युक्तिदोपिका ।