This page has not been fully proofread.

६८
 
सांख्यकोशः
 
जलमदर्शयत् ततः सा भेकराजदुहिता कामरूपिणी भेकी भूत्वा जलं विवेश ।
ततश्च राजा जालादिभिरन्विष्यापि न तामविन्दत् इति । एवमेव स्वनियम-
विस्मरणे योगिनोऽनर्थं उपजायत इति । ( द्र० सां० प्र० मा० म० ४
सु० १६ ) ।
 
भोग — विषयभोगः । स च अभ्यवहरणम् आत्मसात्करणमिति यावत् । विषय-
स्यात्मसात्करणञ्च पुरुषे प्रतिबिम्बनमात्रम्, तस्यापरिणामित्वात् ।
पुरुषातिरिक्तानां देहादीनान्तु भोगः पुष्ट्यादिरूपः आकारग्रहणरूपदच,
तेषां परिणामित्वात् । इत्थञ्च भोगो देहादिचेतनान्तेषु साधारणः ।
क्वचित् पुरुषे भोगस्य प्रतिषेधः परिणामरूपस्यैव न तु प्रतिबिम्बादान-
'रूपस्येति । वस्तुतस्तु फलात्मको मोगः पुरुष एव न तु बुद्ध्यादी । सुखं
भुञ्जीयेति कामनादर्शनात् । तस्मात् सुखदुःखादिकं बुद्धिधर्मंस्तभोगस्तु
पुरुषस्य भवतीति मुख्यः सिद्धान्तः । ( द्र० सां० प्र० मा० अ० १
सू० १०३, १०६ ) ।
 
भौतिकः सर्गः – भूतानां व्यष्टिप्राणिनां सर्गः ।
 
स च त्रिविध : – दैवसर्गः,
तैर्यग्योनसर्गः, मानुष्यसर्गश्चेति । तत्र ब्राह्मप्राजापत्यैन्द्र पैत्र गान्धवं राक्षस-
पैशाचा इत्यष्टविधो दैवः सर्गः । तथा पशुमृगपक्षिस रोमृपस्थावरा
इति तैर्यंग्योनः पञ्चविधः सर्ग: । मानुष्यसर्गश्चैकप्रकार एव भवति,
सर्वेष्वपि नरेषु संस्थानस्य समानत्वात् । एतदुक्तं सांख्यकारिकायाम्-
"अष्टविकल्पो दैवस्तैर्यंग्योनश्च पञ्चधा भवति । मानुष्यश्चैकविधः समासतो
भौतिकः सर्गः इति । ( सां० का० ५३ ) ।
 
मध्यविवेकः– सकृत्संप्रज्ञातयोगेनात्मसाक्षात्कारोत्तरं मध्यविवेकावस्था भवति ।
तदानीं बाधितानापि दुःखादीनां प्रारब्धवशात् प्रतिबिम्ब रूपेण पुरुषेऽनुवृत्त्या
भोगो भवति । विवेकनिष्पत्तिश्च पूर्णरूपेण असंप्रज्ञातादेव भवति, तस्यां
सत्यां भोगो न भवति । इत्थञ्च मन्दविवेको मध्यविवेको विवेक-