2023-03-21 16:54:17 by Krishnadaschandran
This page has been fully proofread once and needs a second look.
अयमत्र विशेषः – समाधिसुषुप्त्योः सबोजा अर्थात् पुनदुःखप्रयोजक-
संस्कारवत्त्वरूप ब्रह्मरूपता भवति, मोक्षे निर्वीजा अर्थात् तादृश संस्कार-
रहिता ब्रह्मरूपता भवति । ( द्र० सां० सू० अनि० वृ० अ० ५ सू ११६-
११७ ) ।
भरतवत् , भरतवत्
यथा भरतस्य राजपेंर्वम्यमपि अनाथहरिणशावकस्य पोषणं
बन्धायाभवत् तथैव विवेकिनोऽपि असावनानुचिन्तनं वन्धाय मवेत् । ( सां०
प्र० भा० अ० ४ सु० ८७ )
भावसर्गः, भावसर्ग
धर्माधर्मज्ञानाज्ञानवैराग्यावैराग्येश्वर्यानैश्वर्य रूपाणामष्टभावानां सर्गः ॥
भृत्यवत् , भृत्यवत्
यथा उत्कृष्टभृत्यस्य स्वभावादेव प्रतिनियताऽऽवश्यकी स्वामिसेवा
प्रवर्तते, न तु स्वभोगाभिप्रायेण, तथैव प्रकृतेश्चेष्टा स्वभावान
भवतीति ।
भूतचैतन्याभावः, भूतचैतन्याभाव
विभागकाले प्रत्येकं भूतेषु चैतन्यादर्शनात् सङ्घातावस्था-
यामपि चैतन्यं नोद्भवितुमर्तति । यत्र स्वल्पा शक्तिरस्ति तस्य समुदाया-
न्महच्छत्तिजयते, यथा तन्तूनां स्वल्पशक्तिमतां समुदायाद् गजबन्धनशक्ति-
दृश्यते । किन्तु भूतानां तथा पृथक् चैतन्यं न दृष्टं येन सङ्घाते चैतन्योद्-
मव: स्यात् । तस्माद् भूतेषु चैतन्यं नास्ति, किन्तु तेभ्योऽन्य एव चेतनोऽ-
स्तीति सिद्धान्तः ।
भूतम् , भूत
आकाशी, वायुस्तेजो, जलं, पृथिवी चेति पञ्चविधम् भूतम् ।
भूतादिः - , भूतादि
तामसः ( अहङ्कारः ) ।
भेकीवत् , भेकीवत्
शास्त्रविहितनियमस्य बिस्मरणेऽपि योगिनो अनथं उपजायते, का
कथा नियमोल्लङ्घनस्येति भेकी- ( मण्डूकी ) दृष्टान्तेन स्फुटयति । कश्चिद्-
राजा मृगयां गतो विपिने सुन्दरीं कन्यां ददर्श । तां प्रति राजा स्वभार्या-
भावाय प्रार्थितवान् । प्रार्थिता सा नियमं कृतवती यद् यदा मह्यं त्वया जलं
प्रदर्श्यते तदाऽहमितो गता भविष्यामीति । एकदा क्रीडया परिश्रान्ता सा
राजानं पृष्टवती कुत्र जलमिति । राजाऽपि अङ्गीकृतं समयं विस्मृत्य तां

भूतादिः