This page has been fully proofread once and needs a second look.

२६
 
सांख्यकोशः
 
मेव । अर्थात् स्वसम्वद्धमेवार्थम् इन्द्रियाणि प्रकाशयन्ति । एतावता गोल-

कातिरिक्तमिन्द्रिय मिति सांख्यसिद्धान्तः । ( द्र० सां० प्र० भा० अ० ५

सू० १०४ ) ।
 
-
 

 
बन्धः, बन्ध
संसरणम् । स च त्रिविधो बन्धः - प्राकृतिको वैकृतिको दाक्षिण कश्चेति ।

तत्र प्रकृतावात्मज्ञानाद् ये प्रकृतिमुपासते तेषां प्राकृतिको बन्धः । अयमेव

प्रकृतिलयानां बन्ध इत्युच्यते । द्वितीयो वैकारिको वन्धस्तेषां ये विकारानेव

भूतेन्द्रियाहङ्कारबुद्धीः पुरुषधियोपासते । अयं बन्धो येषां ते विदेहा इत्यु-

च्यन्ते । इष्टापूत्तन = अग्निहोत्रादिना यज्ञेन वापोकूपतडाकादिनिर्माणादिना

च दाक्षिणको बन्धः । पुरुषतत्त्वानभिज्ञो हीष्टापूर्तकारी कामोपहतमना वध्यत-

इति । ( द्र० सां० त० को०, का० ४४ )।
 

 
बाह्यकरणम् , बाह्यकरण
पञ्चज्ञानेन्द्रियाणि पञ्च कर्मेन्द्रियाणि चेति दशविधं बाह्य-

करणम् ।
 

 
बुद्धिः, बुद्धि
महत्तत्त्वम् । बुद्धेरेव महानित्यपि तान्त्रिकी संज्ञा ।
 

 
ब्रह्मरूपता – ', ब्रह्मरूपता
समाधिसुषुप्तिमोक्षेषु ब्रह्मरूपता इति सूत्रानुसारमासु अवस्थासु पुन-

पाणां बुद्धिविलयतो बुद्ध्यौपाधिकपरिच्छेदविगमेन स्वस्वरूपे पूर्णतयाऽवस्थानं

यद् भवति, तदेव ब्रह्मरूपताऽस्ति । यथा घटध्वंसे जाते घटाकाशस्य पूर्णता

सम्पद्यत इति । तथा चैवंविधं ब्रह्मत्वमेव पुरुषाणां स्वभावोऽस्ति, य उक्ता-

स्ववस्थासु अभिव्यक्तो भवतीति । अस्मिन् शास्त्रे ब्रह्मशब्द औपाधिक-

परिच्छेदमालिन्यादिरहितपरिपूर्णचेतनसामान्यवाचीति विज्ञानभिक्षुः । ( द्र०

सां० प्र०मा० अ० ५ सू० ११६ ) ।
 

अनिरुद्धस्तु- — अत्र ब्रह्मणा तुल्यतैव ब्रह्मरूपताऽभिप्रेता । तुल्यता च

बाह्यासंवेदनमात्रेण । तिसृष्वपि श्रवस्थासु वाह्यासंवेदनस्य समानत्वात् ।

न तु वास्तविकी ब्रह्मरूपता दुःखासंवेदनरूपाऽभिप्रेता, तस्याः सुषुप्ति-

समाध्योरभावात् ।