2023-03-12 05:50:39 by ambuda-bot
This page has not been fully proofread.
२६
सांख्यकोशः
मेव । अर्थात् स्वसम्वद्धमेवार्थम् इन्द्रियाणि प्रकाशयन्ति । एतावता गोल-
कातिरिक्तमिन्द्रिय मिति सांख्यसिद्धान्तः । ( द्र० सां० प्र० भा० अ० ५
सू० १०४ ) ।
-
बन्धः – संसरणम् । स च त्रिविधो बन्धः - प्राकृतिको वैकृतिको दाक्षिण कश्चेति ।
तत्र प्रकृतावात्मज्ञानाद् ये प्रकृतिमुपासते तेषां प्राकृतिको बन्धः । अयमेव
प्रकृतिलयानां बन्ध इत्युच्यते । द्वितीयो वैकारिको वन्धस्तेषां ये विकारानेव
भूतेन्द्रियाहङ्कारबुद्धीः पुरुषधियोपासते । अयं बन्धो येषां ते विदेहा इत्यु-
च्यन्ते । इष्टापूत्तन = अग्निहोत्रादिना यज्ञेन वापोकूपतडाकादिनिर्माणादिना
च दाक्षिणको बन्धः । पुरुषतत्त्वानभिज्ञो हीष्टापूर्तकारी कामोपहतमना वध्यत-
इति । ( द्र० सां० त० को०, का० ४४ )।
बाह्यकरणम् – पञ्चज्ञानेन्द्रियाणि पञ्च कर्मेन्द्रियाणि चेति दशविधं बाह्य-
करणम् ।
बुद्धिः – महत्तत्त्वम् । बुद्धेरेव महानित्यपि तान्त्रिकी संज्ञा ।
ब्रह्मरूपता – 'समाधिसुषुप्तिमोक्षेषु ब्रह्मरूपता इति सूत्रानुसारमासु अवस्थासु पुन-
पाणां बुद्धिविलयतो बुद्ध्यौपाधिकपरिच्छेदविगमेन स्वस्वरूपे पूर्णतयाऽवस्थानं
यद् भवति, तदेव ब्रह्मरूपताऽस्ति । यथा घटध्वंसे जाते घटाकाशस्य पूर्णता
सम्पद्यत इति । तथा चैवंविधं ब्रह्मत्वमेव पुरुषाणां स्वभावोऽस्ति, य उक्ता-
स्ववस्थासु अभिव्यक्तो भवतीति । अस्मिन् शास्त्रे ब्रह्मशब्द औपाधिक-
परिच्छेदमालिन्यादिरहितपरिपूर्णचेतनसामान्यवाचीति विज्ञानभिक्षुः । ( द्र०
सां० प्र०मा० अ० ५ सू० ११६ ) ।
अनिरुद्धस्तु- — अत्र ब्रह्मणा तुल्यतैव ब्रह्मरूपताऽभिप्रेता । तुल्यता च
बाह्यासंवेदनमात्रेण । तिसृष्वपि श्रवस्थासु वाह्यासंवेदनस्य समानत्वात् ।
न तु वास्तविकी ब्रह्मरूपता दुःखासंवेदनरूपाऽभिप्रेता, तस्याः सुषुप्ति-
समाध्योरभावात् ।