This page has been fully proofread once and needs a second look.

प्रत्यक्षलक्षणं बाह्यप्रत्यक्षाभिप्रायेण । योगिनान्तु प्रत्यक्षमवाह्यम् अतो न
तल्लक्ष्यं न वा तत्रेन्द्रियसन्निकर्षापेक्षा । अथवेन्द्रिय सन्निर्पाभावेऽपि योगज-
धर्मंजन्यातिशयसाहाय्येनैव योगिबुद्धिरर्थः सन्निकृष्यते, अर्थाकारताञ्च धार-
यतीति सन्निकर्षद्वाराऽर्थाकारता ग्रहणरूपं सूत्रोक्तं प्रत्यक्षसामान्यलक्षणं योगि-
त्यपि घटए । इन्द्रियसन्निकर्षापेक्षा तु चाक्षुषादिविशेषप्रत्यक्ष
एव भवतीति । सर्वथैव सन्निकर्षानपेक्षे नित्ये ईश्वरप्रत्यक्ष उक्तलक्षणस्या-
व्याप्तिरिति न शङ्कनीयम् ईश्वरे प्रमाणाभावात् । इदमुत्तरमेकदेशिनाममि-
प्रायेणेति विज्ञानभिक्षवः । तद्रीत्या ईश्वरप्रत्यक्षसाधारणं लक्षणन्तु सन्निकर्ष
जन्यज्ञानसजातीयत्वमेव सू कारैविवक्षितम् । ( द्र० सां० प्र० मा० अ०
१ सू० ९२ ) ।
 
प्रत्यक्षे रूपनिन्धनत्वाभावः, प्रत्यक्षे रूपनिन्धनत्वाभाव
प्रकृतिपुरुषयोः साक्षात्कारोऽसंभवी, द्रव्य-
साक्षात्कार प्रति रूपस्य हेतुत्वात्' इति नास्तिकमतं निराकुर्वाणं सांख्यं
द्रव्यप्रत्यक्षं प्रति रूपस्य निमित्तत्वमिति नियमं नानुमन्यते । अतो बहिद्रव्य-
लोकिक प्रत्यक्षं प्रत्येवोद्भूतरूपं व्यञ्जकमिति । ( द्र० सां० प्र० मा० अ०
५ सू० ८९) ।
 
प्रबुद्धरज्जुतत्त्वोरगः, प्रबुद्धरज्जुतत्त्वोरग
यथा प्रबुद्धरज्जुतत्त्वस्यैव जनस्य कृते उरगो मयादिकं
न जनयति, मूढं प्रति तु जनयत्येव । तथैव एकस्मिन् पुरुषे विविक्तवगे-
धानन्तरं विरक्तमपि प्रधानं नान्यस्मिन् पुरुषे सृष्ट्युपरागाय विरक्तं भवति
किन्तु तं प्रति सृजत्येव । ( द्र० सां० प्र० मा० अ० ३ तू० ६६ ) ।

प्राणवायुभौतिकवाय्वोर्भेदः, प्राणवायुभौतिकवाय्वोर्भेद
शरीरारम्भे निमित्तभूतो भौतिको वायुनं तु प्राण-
वायुः । तथा च सूत्रम् 'न देहारम्भकस्य प्राणत्वमिन्द्रियशक्तितस्तत्सिद्धेः
इति । ( सां० द० अ० ५ सू० ११३ ) ।
 
प्राणादिः, प्राणादि
प्राणाद्याः वायुविशेषाः । प्राणोऽपान उदानो व्यानः समानश्चेति
पञ्च ।
 
प्राप्यकारीणीन्द्रियाणि, प्राप्यकारीणीन्द्रिय
इन्द्रियाणां नाप्राप्तप्रकाशकत्वं किन्तु प्राप्तप्रकाशकत्व-