This page has been fully proofread once and needs a second look.

शब्दाभिप्रायेण चेत्याह । वाचस्पतिमिश्रा अपि 'प्रमीयतेऽनेनेति निर्वंचनात् प्रमां
प्रति करणत्वमवगम्यते । तच्चासंदिग्धाविपरीतानधिगतविषया चित्तवृत्तिः ।
बोधश्च पौरुयेयः फलं प्रमा' इत्याहुः । ( सां० त० कौ० का० ४ ) ।
 
प्रमाणम् , प्रमाण
पौरुषेयबोधरूपां प्रमां प्रति यत् साधकतमं तत् प्रमाणम् । द्रष्टव्यम्
द्वयोरेकतरस्य वाप्यसंनिकृष्टार्थपरिच्छित्तिः प्रमा, तत्साधकतमं यत् तत्
त्रिविधं प्रमाणम् । ( सां० द० अ० वृ० १ सू० वृ० ८७ ) । बोधश्च पीरुपेय:
फलं प्रमा, तत्साधनं प्रमाणमिति सांख्यतत्त्वकौमुदी । ( सां० का ० ४ ) ।
अस्मिन् पक्षे पौरुषेयो बोधः प्रमा, तत्कारणभूता चित्तवृत्तिः प्रमाणम् । यदा
तु अर्थाकारा चित्तवृत्तिरेव प्रमापदेन व्यपदिश्यते तदा तत्कारणभूताः
इन्द्रियसंनिकर्षादय एव प्रमाणतया व्यवह्रियन्त इति मन्तव्यम् ।
 
प्रमेयम् , प्रमेय
प्रमाविषयीभूता ये ते प्रमेयपदेनोच्यन्ते । सांख्याभिमतं प्रमेयम् -
प्रधानं, बुद्धिः, अहङ्कारः, पञ्चतन्मात्राणि, एकादशेन्द्रियाणि, पञ्चमहाभूता-
नि, पुरुष इति । एतानि पञ्चविंशतितत्त्वानि व्यक्ताव्यक्तज्ञा इत्युच्यन्ते ।
( द्र० सां० का० ४ गौडपादमाष्यम् ) । परमात्मापि षड्विशः प्रमेयभूतः
पदार्थः पुरुष एवान्तर्भूत इति विज्ञानभिक्षुः ।
 
प्रत्यक्षम् , प्रत्यक्ष
यत् सम्वद्धं सत् तदाकारोल्लेखि विज्ञानं तत् प्रत्यक्षम्' इति सांख्य-
सूत्रम् ( अ० १ सु० ८९ ) । सम्बद्धं भवत् सम्बद्धवस्त्वाकारधारि भवति
यद् विज्ञानं बुद्धिवृत्तिस्तत् प्रत्यक्षं प्रमाणमिति निष्कर्ष इति सांख्यप्रवचन-
माष्यम् । प्रतिविषयाव्यवसायो दृष्टम् ( प्रत्यक्षम् ) इति सांख्यकारिका ।
अत्र गौडपादमाष्यम् – प्रतिविषयेषु श्रोत्रादीनां शब्दादिविषयेषु अघ्यवसायो
दृष्टं = प्रत्यक्षमित्यर्थं इति । वाचस्पतिमिश्रास्तु - विषयं विषयं प्रति वर्तत
इति प्रतिविषयम् = इन्द्रियम् । वृत्तिश्च सन्निकर्षः = अर्थसन्निकृष्टमित्यथः ।
तस्मिन् अव्यवसायः = तदाश्रित इत्यर्थः । अध्यवसायश्च बुद्धिव्यापारो
ज्ञानम् । उपात्तविषयाणामिन्द्रियाणां वृत्तौ ( सन्निकर्पे ) सत्यां तमोऽभिभवे
सति यः सत्त्वसमुद्रेकः, सोऽध्यवसाय इति वृत्तिरिति ज्ञानमिति चाख्यायते ।
इदं तावत् प्रत्यक्षं प्रमाणमिति । ( सां० त० कौ० का० ५ ) । इदश्व