2023-03-21 16:39:56 by Krishnadaschandran
This page has been fully proofread once and needs a second look.
मात्रं सकतृर्क किन्तु कार्यविशेषः । ( द्र० सां० द० अनि० वृ० म० ५
सू० ५० ) ।
प्रकृतिः, प्रकृति
सत्त्वरजस्तमसां साम्यावस्था, साम्यावस्थोपलक्षितं सत्त्वादित्रयं वा
प्रकृति: । साम्यावस्था च न्यूनाधिकभावेनासं हननम् अकार्यावस्थेत्यर्थः ।
कार्यभिन्नं गुणत्रयं प्रकृतिरिति पर्यवसितम् । इदश्च मूलप्रकृतिलक्षणम् ।
प्रकृतिसामान्य लक्षणन्तु तत्त्वान्तरोपादानत्वं प्रकृतित्वमिति । ( द्र० सां०
द० अनि० वृ० अ० १ सू० ६१ ) ।
प्रतिबन्धः, प्रतिबन्धः ध
अविनाभावो, व्याप्तिः । सा च उभयोः समव्याप्तिकयोः कृतकत्वा-
नित्यत्वयोरेकतरस्य, विषमव्याप्तिकस्य धूमस्य वा नियतधर्मसाहित्यम्,
साव्यात्मकधर्मंसाहित्यं वा । तच्च साहित्यं वह्निमयोनिजा सहजा शक्तिरिति
साँख्यमतमित्याह वृत्तिकारः, सूत्रे 'आचार्याः' इति सम्मानप्रदर्शनात् ।
( द्र • सां० द० अनि० वृ० अ० ५ सू० ३० ३१ ) ।
प्रतिबद्धः, प्रतिबद्ध
व्यापकः साध्यभूतः ।
प्रधानाविवेक एव सर्वाविवेकहेतुः, प्रधानाविवेक एव सर्वाविवेकहेतु
सर्वेषां मूलं प्रधानम् । तस्याविवेकादन्या-
विवेकस्य सम्भवः । पदार्थानामन्योन्यं भवत्वविवेको विवेको वा, न तेन
बन्धमोक्षौ, किन्तु प्रधानविवेकाविवेकाभ्याम् । अतः प्रधानाविवेकहाने सत
सर्वाविवेकहानम् भवतीति । ( द्र० सां० द० अनि० वृ० अ० १
सु० ५७ ) ।
प्रमा, प्रमा
इन्द्रियादिप्रणालिकया साक्षाद्वा या अज्ञातार्थविषयिणी चित्तवृत्तिः,
तज्जन्यः पौरुषेयो बोधः प्रमा । तथा च सांख्यसूत्रम् - द्वयोरेकतरस्य वाऽ-
प्यसन्निकृष्टार्थंपरिच्छित्तिः प्रमा । ( अ० १ सू० ८७ ) । अत्र असन्निकृष्टः
प्रमातयनारूढोऽनधिगत इति यावत् । एवम्भूतस्यायंस्य वस्तुनः परिच्छि-
त्तिरवधारणं प्रमा । (सां०प्र०भा० अ० १ सू० ८७) । अत्र वृत्तिकारः- सूत्रे
द्वयोरिति पदस्य । इन्द्रियार्थयोविद्यमानयोरित्यर्थः प्रत्यक्षाभिप्रायेण । तथा
एकतरस्येति पदस्य लिङ्गस्य शब्दस्य वा विद्यमानस्येत्यर्थोऽनुमानाभिप्रायेण

प्रतिबन्धः, प्रतिबन्