This page has been fully proofread once and needs a second look.

पिङ्गलावत् , पिङ्गलावत्
यथा पिङ्गला नाम वेश्या कान्तार्थिनी कान्तमलव्वा दुःखिताऽ-
भूत्, आशां विहाय तु सुखिनी बभूव । तथैव पुरुष आशां विहाय सन्तोषात्
सुखी भवेत् । तदुक्तम्- आशा हि परमं दुःखं नैराश्यं परमं सुखम् । यथा
सञ्छिद्य कान्ताशां सुखं सुष्वाप पिङ्गला इति । ( सां० प्र० मा० अ० ४
सु० २१ ) ।
 
पिशाचवत् , पिशाचवत्
यथाऽर्जुनस्य कृते श्रीकृष्णेन तत्त्वोपदेशे क्रियमाणेऽपि समोपस्थस्य
पिशाचस्यापि विवेकज्ञानं जातं तथैव ब्राह्मणं प्रति क्रियमाणं तत्त्वोपदेशं
श्रुत्वा स्त्रीशूद्रादयोऽपि तत्त्वज्ञानिनः स्युः । ( द्र० सां० प्र० भा० अ०
४ सू० २ ) ।
 
पुमान् , पुमान्स्
शरीरादिव्यतिरिक्तश्चेतनः पुरुषः ।
 
पुरुषः, पुरुष
असंहतो निर्गुणः कूटस्थो द्रष्टा मोक्ता विभुनित्यश्चित्स्वरूपः प्रतिशरीरं
नाना चेति । पुरुषः, आत्मा, पुमान्, पुद्गलजन्तुः, जीवः क्षेत्रज्ञः इति
पर्यायाः ।
 
पूर्ववत् , पूर्ववत्
प्रत्यक्षीकृतजातीयविषयकं पूर्वंवदनुमानम् । यथा धूमेन वहन्यनुमानम् ।
वह्निजातीयो हि महानसादो पूर्व प्रत्यक्षीकृतः । ( द्र० सां० प्र० भा०
अ० १ सू० १०३ ) ।
वाचस्पति मिश्रास्तु–दृष्टस्वलक्षणसामान्य विषयं यत् तत्पूर्ववत् । यथा धूमाद्
वह्नित्वसामान्यविशेषः पर्वतेऽनुमीयते तस्य च वह्नित्वसामान्य विशेषस्य
स्वलक्षणं वह्निविशेषो दृष्टो रसवत्याम् (महानसे ) । ( द्र० सां० त० को ०
सां० का० ५ ) ।
 
पौरुषेयत्वम् , पौरुषेयत्व
दृष्टं वस्तु भवेददृष्टं वा, यस्मिन् वस्तुनि कृतमिति बुद्धिरूप-
जायते तत् पौरुषेयम् । न तु पुरुषोच्चरितत्वं पौरुपेयत्वमिति सांख्या-
भिमतम् । तथा सति वेदानामपि आदिपुरुषोच्चरितत्वेन पौरुपेयत्वा-
पत्तिः स्यात् । (द्र० सां० प्र० मा० अ० ५ ० ५० ) । अनिरुद्धोऽप्याह-
यस्मिन्नदृष्टेऽपि कृतवुद्धिरूपजायते तत् पौरुपेयम् । अस्मिन् मते न कार्य-