2023-03-14 01:47:45 by Krishnadaschandran
This page has been fully proofread once and needs a second look.
आसुरिमुनेः शिष्य: कपिलमुनेः प्रशिष्यश्च । तत्र प्रमाणम्
'एतत्पवित्रमग्र्यं मुनिरासुरयेऽनुकम्पया प्रददौ । आसुरिरपि पञ्चशिखाय तेन
च बहुधा कृतं तन्त्रम्' इति सांख्यकारिका ७० ।
-
-
पञ्चाग्नियोगः
द्यु- पर्जन्य--धरा-पुरुष-योपिद्रूपाग्निपञ्चकेन सह सम्बन्धः ।
( द्र० सां० प्र० भा० अ० ४ सु० २२ तथा छां० उ० पश्चमप्रपाठक: ) ।
पदार्थसंख्याया अनियमः
वैशेषिका हि द्रव्यादिषड्भावपदार्थान् मन्यन्ते,
नैयायिकाश्च प्रमाणप्रमेयसंशयप्रयोजनेत्यादिषोडशपदार्थान् मन्यन्ते । उभयेऽपि
ते तेषां पदार्थानां तत्त्वज्ञानान्मुक्तिर्भवतीति च मन्यन्ते । किन्तु अनियतपदा-
र्थवादिसांख्यमते पदार्थसंख्यानियमो नास्ति । न वा तेषां पदार्थानां ज्ञाना-
न्मुक्तिर्भवति, आत्मज्ञानादेव मुक्तिस्वीकारात् । ( द्र० सां० द० अनि० वृ०
अ० ५ सू० ८५-८६)।
—
परमाणुसावयवत्वम्
नैयायिकाद्यभ्युपगतं परमाणूनां निर्मागत्वं नास्ति,
कार्यत्वात् इति सांख्यमतम् । अत एव तन्मात्राख्यसूक्ष्मद्रव्याण्येव पार्थिवा-
द्यणूनामवयवा इति पातञ्जले माध्ये व्यासदेवैः प्रत्यपादि । ( द्र० सां० प्र०
मा० अ० ५ सू० ८८ ) ।
परिमाणद्वैविध्यम्
सांख्यमते महत्परिमाणमणुपरिमाणञ्चेति द्विविधमेव
परिमाणमस्ति । एतयोरेव प्रभेदा इतरे परिमाणविशेषाः । ( द्र० सां० ६०
अनि० वृ० अ० ५ सू० ९० ) । तत्र महत्परिमाणस्यावान्तरभेदावेव
ह्रस्वदीघीं स्तोऽन्यथा वक्रादिरूपैः परिमाणानन्त्यप्रसङ्गात् इति । ( द्र०
सां० प्र० मा० अ० ५ सु० ९० ) ।
―
पशुवत्
यथा पशु: रज्ज्वा लिप्ततया बन्धमोक्षभागी भवति, तथैव प्रकृतिरेव
धर्मादिभावैलिप्ततया वन्धमोक्षभागिनी भवति न पुरुष इति ।
पाञ्चभौतिकः, पाञ्चभौतिक—-पञ्चान भूतानां मिलितानां परिणामो देहः इति कस्य-
चिन्मतम् ।