This page has not been fully proofread.

२०
 
सांख्यकोशः
 
नित्यबुद्ध्याद्यभावः– नित्या ज्ञानेच्छाकृतयो न भवन्ति सांख्यमते । अत एव
नित्यबुद्ध्यादीनामाश्रयोऽपि कश्चिदीश्वरो नास्ति । ( द्र० सां० सु०
वृ० अ० ५ सू० १२७-१२८ तथा तत्रत्यं सां० प्र० भा० ) ।
 
० अनि०
 
नित्यमुक्तः– सदा बन्धरहितः ।
 
नित्यशुद्धः – सर्वदा विकारलेशतोऽप्यसंस्पृष्टः ।
 
नित्यसंबन्धाभावः- कश्चिन्नित्यः सम्बन्धो नास्ति । यतो हि स सम्बन्धः
संयोगो वा भवेत् समवायो वा । नाद्य। - संयोगस्य कमंजन्यतया नित्येषु
व्यापकेषु च क्रियाया अभावेन संयोगासंभवात् । अनित्यानां संयोगसत्त्वेऽपि
तस्य संयोगस्याप्यनित्यत्वात् ।
 
ननु संयोगो माभूत नित्यः सम्वन्धः, समवायस्तु नित्यः सम्बन्धो भवेत् इति
चेन्न, समवायः स्वयमसम्बद्धश्चेत् सम्बन्धिनोः परस्परं सम्वद्धत्वासंभवः ।
सम्बद्धश्चेत् केन सम्बन्धेन समवायः सम्बद्धः ? सम्बन्धान्तरस्यासंभवात्
समवायेनैव सम्बद्धो वक्तव्यः । तथा सति तस्याप्यन्यः तस्याप्यन्य: समवाय
इत्यनवस्थाप्रसङ्ग इति समवायस्याप्यसिद्धेः । अनवस्थादोषपरिहाराय
समवायस्य सम्वद्धत्वं ( वैशिष्ट्यम् ) यदि स्वरूपेणेष्येत तदा गुण भृतीनां
वैशिष्ट्यबुद्धिरपि स्वरूपेणैवेष्यताम्, कृतं समवायेनेति । न चैवं संयोगोऽपि
सम्वन्धो न सिध्येत्, भूतले घटवत्ताप्रतीतेः स्वरूपेणैवोपपत्तरिति वाच्यम्
वियोगकालेऽपि कुण्डवदरयोः स्वरूपसत्त्वेन विशिष्टबुद्धिप्रसङ्गात् । समवा-
यस्थले च समवेतस्य कदापि स्वाश्रयवियोगो नास्तीति तत्र स्वरूपसम्बन्ध-
स्वीकारे नायं दोषः । तस्मात् समवायः सम्बन्ध एव नास्तीति सांख्यमतम् ।
( द्र० सां० प्र० भा० ऋ० ५ सु० ६८, ९९, १०० ) ।
 
-
 
पङ्कजवत् - यथा पङ्कजं पादुत्पन्नमपि न पङ्करूपतां धारयति तथैव प्रकृति-
सहकारादुत्पन्नमपि आत्मज्ञानं मोक्षो वा न संसाररूपतां धारयति ।
 
पञ्चतन्मात्राणि – शब्दतन्मात्रं, स्पर्शतन्मात्रं, रूपतन्मात्रं, रसतन्मात्रं, गन्ध-
तन्मात्रञ्चेति ।